________________
प्रमाणलक्षण-परीक्षा : १९ व्यतिरिक्तस्य तदाकारस्याप्रतीयमानत्वात् इति । येनात्मना ज्ञानात् कर्मकरणाकारयोरभेदो येन च भेदस्तौ ज्ञानात्किमभिन्नौ भिन्नौ वा इति न पर्यनुयोगस्यावकाशोऽस्ति यतोऽनवस्था महीयसी संप्रसज्येत। न च भिन्नाभ्यामेव कर्मकरणाभ्यां भवितव्यमिति नियमोऽस्ति, करणस्याभिन्नकर्तकस्यापि दर्शनात्, भिन्नकर्तृककरणवत्। यथैव हि देवदत्तः परशुना छिनत्ति काष्ठमित्यत्र देवदत्तात्कर्तुभिन्न परशुलक्षणं करणमुपलक्ष्यते तथाग्निर्दहति दहनात्मना इत्यत्राग्नेः कत्तुर्दहनात्मलक्षणं करणमभिन्नमुपलभ्यत एव । दहनात्माप्युष्णलक्षणो गुण: स चाग्नेर्गुणिनो भिन्न एवेति न मन्तव्यम्, सर्वथा तयोर्भेदे गुणगुणीभावविरोधात्, सह्य-विन्ध्यवत् । गुणिनि गुणस्य समवायात्तयोस्तद्भाव इत्यपि न सम्यक्', समवायस्य कथंचिदविष्वग्भावादन्यस्य विचारासहत्वात् । समित्येकीभावेनावायनमवगमनं निश्चयं हि समवायः । तच्च समवायनं कर्मस्थं समवेयमानत्वं समवायितादात्म्यं सम्प्रतीयते । कर्तृस्थं पुनः समवायन समवायकत्वं प्रमातुस्तादात्म्येन समवायिनोहकत्वम्, न चान्या गतिरस्ति, क्रियायाः कर्तृकर्मस्थतयैव प्रतिपादनात् । तत्र "कर्मस्था क्रिया कर्मणोऽनन्या कर्तृस्था कर्तुरनन्या' [ ] इति वचनात् ।
$ ४२. ततो नाभिन्नकर्तृकं करणमप्रसिद्धम् । नापि कर्म, तस्यापि भिन्नकर्तृकस्येवाभिन्नकर्तृकस्यापि प्रतीतेः। यथैव हि कटं करोतीत्यत्र कर्तुभिन्न कर्मानुमन्यते तथा प्रदीपः प्रकाशयत्यात्मानमित्यत्र कर्तुरभिन्नं कर्म सम्प्रतीयत एव । न हि प्रदीपात्मा प्रदीपाद्भिन्न एव प्रदीपस्याप्रदीपत्वप्रसंगात्, घटवत् । प्रदीपे प्रदीपात्मनो भिन्नस्यापि समवायात् प्रदीपत्वसिद्धिरिति चेत्: न, अप्रद्वोपेऽपि घटादौ तत्समवायप्रसंगात् । प्रत्यासत्तिविशेषात्प्रदीपात्मनः प्रदीप एव समवायो नान्यत्रेति चेत्, स प्रत्यासत्तिविशेष:11 कोऽन्योऽन्यत्र कथंचित्तादात्म्यात् । ततः प्रदीपादभिन्न एव प्रदीपात्मा कर्मेति सिद्धमभिन्नकर्तृकं कर्म । तथा च ज्ञानमात्मानमा 8. त्मना जानातीति न स्वात्मनि ज्ञप्तिलक्षणायाः क्रियाया विरोधः सिद्धः, यतः स्वव्यवसायात्मकं ज्ञानं न स्यात् ।
1. 'भेदस्य द्रव्यव्यतिरिक्तस्याकारस्या...' मु। 2. 'करणस्य भिन्न' मुअ। 3. 'भिन्नकर्तृकरणवत्' मु अ स द । 4. 'उपलभ्यते' मुअ। 5. 'गुणः' नास्ति म। 6. 'तयोविरोधे' म्। 7. 'सत्य' म अ स द । 8. ..."गमनं हि समवायः' मु द । 9. 'प्रतीयते' मु। 10. 'भिन्नकर्म' मु अ । 11. 'विशेषोऽत्र' मु । 12. 'कोऽन्यत्र' मु। 13. 'ज्ञानात्मात्मानमात्मना' मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org