________________
१८ : प्रमाण-परीक्षायां स्वकारणसामग्रीतः प्रदीपादेः प्रकाशः समुपजायमानः स्वप्रकाशात्मना नोत्पद्यत इति प्रातीतिकम्, तत्स्वरूपप्रकाशने प्रकाशान्तरापेक्षाप्रसंगात् । न चायं प्रदीपाद्यालोकः कलशादिज्ञानं स्वरूपज्ञानं च जनयतश्चक्षुषः सहकारित्वं नात्मसात्कुरुते येन स्वप्रकाशको न स्यात् । चक्षुषः सहकारित्वं हि प्रदीपादेः प्रकाशकत्वम् । तच्च कलशादाविव स्वात्मन्यपि दीपादेविद्यत एवेति सिद्धा स्वात्मनि प्रकाशनक्रिया। तद्वद्विज्ञानस्यार्थप्रकाशनमिव स्वप्रकाशनमप्यविरुद्धमवबुद्धयताम् ।
$४०. एतेन 'ज्ञानं न स्वप्रकाशकम्, अर्थप्रकाशकत्वाच्चक्षुरादिवत्'3 इत्यनुमानमपास्तम्, प्रदीपादिना हेतोरनेकान्तात् । प्रदीपादिरुपचारात्प्रकाशको न परमार्थत इति तेनाव्यभिचारे चक्षुरादेरपि परमार्थतोऽर्थाप्रकाशकत्वात्साधनशून्यो दृष्टान्तः, ज्ञानस्यैव परमार्थतोऽर्थप्रकाशकत्वोपपत्तेः । ततो 'ज्ञानं स्वप्रकाशकम्, अर्थप्रकाशकत्वात् । यत्तु न स्वप्रकाशकं तन्नार्थप्रकाशकं दृष्टम्, यथा कुडयादिकम् । अर्थप्रकाशकं च ज्ञानम् । तस्मात्स्वप्रकाशम्' इति केवलव्यतिरेक्यनुमानमविनाभावनियमनिश्चयलक्षणाद्धेतोरुत्पद्यमानं निरवद्यमेवेति बुध्यामहे । चक्षुरादेः परमार्थतोऽर्थप्रकाशकत्वासिद्धेस्तेन साधनस्यानैकान्तिकत्वानुपपत्तेः । कुडयादेरपि स्वाविनाभाविपदार्थान्तरप्रकाशकत्वाद्भूमादिवत् साधनाव्यतिरेको दृष्टान्त इत्यपि समुत्सारितमनेन, तस्याप्युपचारादर्थप्रकाशकत्वसिद्धेः, अन्यथा तज्जनितविज्ञानवैयर्थ्यापत्तेः।
४१. यत्पुनर्ज्ञानमात्मानमात्मना जानातीति कर्मकरणाकारद्वयपरिकल्पनायामनवस्थादिदोषानुषंगो बाधक इति मतम्, तदपि न सुन्दरतरम्, तथाप्रतीतिसिद्धत्वात् । जात्यन्तरत्वादाकाराकारवतोभदाभेदं प्रत्यनेकान्तात् । कर्मकरणाकारयोर्ज्ञानात् कथंचिदभेदः कथंचिद्भेद इति नैकान्तेन भेदाभेदपक्षोपक्षिप्तदोषोपनिपातः स्याद्वादिनः संलक्ष्यते । न च कथंचिदित्यन्धपदमात्रं ज्ञानात्मना तदभेदस्य कथंचिदभेदशब्देनाभिधानात् । कर्मकरणात्मना च भेद इति कथंचिद्भेदध्वनिना दर्शितत्वात् । तथा च ज्ञानात्मना तदभेद इति ज्ञानमेवाभेद'स्ततो भिन्नस्य ज्ञानात्मनोऽप्रतीतेः। कर्मकरणाकारतया च भेद इति कर्मकरणाकारावेव भेदस्त
1. 'प्रकाशेन' मु। 2. 'चक्षुषो जनयतः' । 3. 'प्रकाशकत्वादित्यनु..." मु। 4. 'अनेकान्तिकतानुपपत्तेः' म्। 5. 'आकारवतोः' मु। 6. 'स्याद्वादिनाम्' मु। 7. 'ज्ञानभेदाभेदस्ततो' मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org