________________
प्रमाणलक्षण-परीक्षा : १७ किंचिद्ज्ञानं सत्तामात्रं व्यभिचरति, तस्यानुत्पत्तिप्रसक्तेः । ततोऽसत्यस्वप्नस्याप्यर्थसामान्यव्यवसायात्मकत्वसिद्धेने किचिद् ज्ञानमा व्यवसायात्मकम् । विशेषं तु यत एव व्यभिचरति तत एवासत्यः । कथमन्यथा सत्येतरव्यवस्थितिः स्यात्, तस्याः स्वार्थविशेषप्राप्त्यप्राप्तिनिमित्तत्वात् । इत्यलं प्रसंगेन, स्वव्यवसायात्मकत्ववत् सम्यग्ज्ञानस्यार्थव्यवसायात्मकत्वप्रसिद्धः ।
[अस्वसंवेदिज्ञानवादिनां नैयायिकानां मतनिरासः ]
३७. अत्रापरः प्राह-सम्यग्ज्ञानमर्थव्यवसायात्मकमेव न स्वव्यवसायात्मकम्, स्वात्मनि क्रियाविरोधात्, एकस्य ज्ञानस्यानेकाकारानुपपत्तेः । न हि ज्ञानमेकमाकारं कर्मतामापन्नं स्वं व्यवस्पति करणात्मनाकारेणेति वक्तुं युक्तम्, ताभ्यां कर्मकरणाकाराभ्यां ज्ञानस्याभेदे भेदप्रसंगात् । न हि भिन्नाभ्यां ताभ्यामभिन्नमेकं नाम, अतिप्रसंगात् । तयोर्वाकारयोर्ज्ञानादभेदे भेदविरोधात् । न ह्यभिन्नादभिन्नयोर्भेदः संभाव्यते, अतिप्रसंगादेव । ताभ्यां विज्ञानस्य भेदोपगमे न विज्ञानमात्मनात्मानं व्यवस्यति, परात्मना परात्मन एव व्यवसायात् । तौ चाकारौ यदि ज्ञानस्यात्मानौ तदा ज्ञानं व्यवस्यति वा न वा। प्रथमपक्षे किमेकेनाकारान्तरेण द्वाभ्यां वाकारान्तराभ्यां तत्ती व्यवस्येत् । न तावदेकेनाकारान्तरेण, विरोधात् । द्वाभ्यां व्यवस्यति इति चेत्, तयोरप्याकारान्तरयोआनादभेदो भेदो वा स्यात् इत्यनिवृत्तः पर्यनुयोगोऽनवस्था च महीयसी । कथंचिद्भेदः कथंचिदभेद इत्युभयपक्षालंबनमपि अनेनैवापास्तम्, पक्षद्वयनिक्षिप्तदोषानुषंगात् पक्षान्तरासंभवाच्चेति ।
३८. सोऽपि न न्यायकुशलः; प्रतीत्यतिलंघनात् । लोके हि ज्ञानस्य स्वव्यवसायिन एवार्थव्यसायित्वेन प्रतीतिः सिद्धान चेयं मिथ्या, बाधकाभावात् । 'स्वात्मनि क्रियाविरोधो बाधकः' इति चेत्, का पुनः क्रिया। किमुत्पत्ति प्तिर्वा । यद्युत्पत्तिः, सा स्वात्मनि विरुद्धयताम् । न हि वयमभ्यनुजानीमहे ज्ञानमात्मानमुत्पादयतीति । 'नैकं स्वस्मात्प्रजायते' [ आ० मी० का० २४ ] इति समन्तभद्रस्वामिभिरभिधानात् ।
S३९. अथ ज्ञप्तिः क्रिया, सा स्वात्मनि नविरुद्धा, तदात्मनैव ज्ञानस्य स्वकारणकलापादुत्पादात् । प्रकाशात्मनेव प्रकाशस्य प्रदीपादेः। न हि
. 1. 'आपन्नं व्यवस्थति' मु । 2. 'कर्मात्मना' मु । 3. 'भेदप्रसंगात्' म । 4. 'अतिप्रसंगात् । ‘एवं' मु व। 5. 'व्यवस्येत' मुव । 6. 'पक्षावलम्बन' अब स। 7. 'न' नास्ति ' मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org