________________
१६ : प्रमाण-परीक्षायां
$ ३५ यत्तु स्वप्नज्ञानं स्वव्यवसायात्मकमेवेत्युक्तं तदपि न संगतम्, तस्य साक्षात्परम्परया वाऽर्थव्यवसायात्मकत्वघटनात् । द्विविधो हि स्वप्नः सत्योऽसत्यश्च । तत्र सत्यो देवताकृतः स्यात् धर्माधर्मकृतो वा, स' कस्यचित्साक्षादर्थव्यवसायात्मकः " प्रसिद्धः, स्वप्नदशायां यद्देशकालाकारतयाऽर्थः प्रतिपन्नः पुनर्जागृद्दशायामपि तद्देशकालाकारतयैव तस्य व्यवसीयमानत्वात् । कश्चित्सत्यः स्वप्नः परम्परयार्थव्यवसायी, स्वप्नाध्यायनिगदितार्थप्रापकत्वात् । तदुक्तम्
2
यस्तु पश्यति रात्र्यं ते राजानं कुंजरं हयं । सुवर्णं वृषभं गां च कुटुंबं तस्य वर्धते ॥ [
1
6
इति कुटुंबवर्धनाविर्भाविनः स्वप्ने राजादिदर्शनस्य कथमर्थनिश्चायकता न स्यात् पावकाविनाभाविधू मदर्शनवत् । दृष्टार्थाव्यवसायात्मकत्वान्न स्वप्नबोधोऽर्थव्यवसायी इति वचने लैंगिकोऽपि बोधोऽर्थं व्यवसायी माभूत्, तत एव, तद्वत् । अनुमानबोधोऽनुमितार्थ व्यवसायी संभवतीति वचने स्वप्नागमगम्यार्थव्यवसायी स्वप्नबोधोऽपि कथं नाभ्यनुज्ञायते । कदाचिद्व्यभिचारदर्शनान्नैवमभ्युपगमः कर्तुं सुशक्य इति चेत्; न; देशकालाकारविशेषं यथार्थागमोदितमपेक्ष्यमाणस्य क्वचित्कदाचित्कथंचिद् व्यभिचाराभावात् । तदपेक्षा विकलस्तु न समीचीनः स्वप्नः, तस्य स्वप्नाभासत्वात् । प्रतिपत्तुरपराधाच्च व्यभिचारः संभाव्यते न पुनरनपराधात् । यथा चाधूमं धूमबुद्धया प्रतिपद्यमानस्य ततः पावकानुमानं व्यभिचरतीति प्रतिपत्तुरेवापराधो न धूमस्य धीमद्भिरभिधीयते तथैवास्वप्नं स्वप्नबुद्धथाध्यवस्यतः ' ततस्तद्विषयाध्यवसायो व्यभिचरतीति 10 न स्वप्नागमस्यापराधः प्रतिपत्तुरेवापराधात् ।
$ ३६. यः पुनरसत्यः स्वप्नः पित्ताद्युद्रेकजनितः स किमर्थं सामान्यं व्यभिचरति अर्थविशेषं वा । न तावदर्थसामान्यं देशकालाकारविशेषाणामेव व्यभिचारात् सर्वत्र सर्वदा सर्वथार्थसामान्यस्य सद्भावात् । तदभावेऽर्थं विशेषेषु संशयविपर्यासस्वप्नायथार्थज्ञानानामनुपपत्तेः 12 । न हि
Jain Education International
1. 'स' नास्ति म । 2. 'साक्षाद्व्यवसायात्मकः ' मु । नास्ति । 4. 'स्वप्नान्ते' अ ब स । 5. 'कुटंबं ' मु । 6 'चाधूमः ' मु । 8. 'व्यभिचारीति' मु स । 9 'अध्यवस्य' मु । चर''''' मु । 11. 'प्रतिपत्तेरेवा' मु । 12 'अनुत्पत्तेः' मु ।
3. 'सत्य : ' अ ब द 'माभूत' मु । 7. 10. 'न व्यभि
For Private & Personal Use Only
www.jainelibrary.org: