________________
प्रमाणलक्षण-परीक्षा : १५
स्वयमनुभूयमाने परब्रह्मणि प्रतिभासात्मनि देशकालाकाराव्यवच्छिन्नस्वरूपे निर्व्यभिचारे सकलावस्था-व्यापिनि अनुमानाप्रयोगात् इति समाधीयते तदा साऽप्यनाद्यविद्या यदि प्रतिभासान्तःप्रविष्टा, तदा विद्य व कथमसन्तं धर्मि-हेतु- दृष्टान्तादिभेदमुपदर्शयेत् । अथ प्रतिभासबहिर्भूता, तदा साऽप्रतिभासमाना प्रतिभासमाना वा । न तावदप्रतिभासमाना, भेदे प्रतिभासरूपत्वात्तस्याः । प्रतिभासमाना चेत्, तयैव हेतोर्व्यभिचारः, प्रतिभासबहि तत्वेऽपि तस्याः प्रतिभासमानत्वात् ।
३४. स्यादाकूतम्-न प्रतिभासमाना नाप्यप्रतिभासमाना, न प्रतिभासबहिर्भूता नापि प्रतिभासान्तःप्रविष्टा, नैका न चानेका, न नित्या नाप्यनित्या, न व्यभिचारिणी नाप्यभिचारिणी, सर्वथा विचार्यमाणायोगात् । सकलविचारातिक्रान्तस्वरूपैव, रूपान्तराभावात्, अविद्याया नीरूपतालक्षणत्वात् इति; तदेतदप्यविद्याविजम्भितमेव; तथाविधनीरूपतास्वभावायाः केनचिदविद्यायाः कथंचिदप्रतिभासमानायाः वक्तुमशक्तः । प्रतिभासमानायास्तु तथावचने कथमसो सर्वथा नीरूपा स्यात् । येन स्वरूपेण य: प्रतिभासते तस्यैव तद्पत्वात् । तथा सकलविचारातिक्रान्ततया किमसो विचारगोचराऽविचारगोचरा वा स्यात् । प्रथमकल्पनायां सकलविचारातिक्रान्ततया विचारानतिक्रान्तत्वादभ्युपगमव्याघातः स्यात् । द्वितीयकल्पनायां न सकलविचारातिक्रान्तता व्यवतिष्ठते, सकलविचारातिक्रान्तताया अपि तस्यास्तदा व्यवस्थाने सर्वथैकानेकादिरूपताया अपि व्यवस्थानप्रसंगात् । तस्मात्सत्स्वभावैवाविद्याऽभ्युपगन्तव्या, विद्यावत् । तथा च विद्याऽविद्याद्वैतप्रसिद्धः कुतः परमब्रह्मणोऽनुमानासिद्धिः। एतेनोपनिषद्वाक्यात्परमपुरुषसिद्धिः प्रत्याख्याता। 'सर्व वै रवल्विदं ब्रह्म' [ ] इत्यादिवाक्यस्य परमात्मनोऽर्थान्तरभावे द्वैतप्रसक्तेरविशेषात् । तस्यानाद्यविद्यात्मकत्वेऽपि पूर्वोदितदूषणगण प्रसंगात् । ततो न परमपुरुषाद्वैतसिद्धिः स्वतः परतो वा, येन 'सम्यग्ज्ञानं स्वव्यवसायात्मकमेव न पुनरर्थव्यवसायात्मकम्, अर्थाभावात्', इति वदन् अवधेयवचनः स्यात् ।
1. 'कालाकारावच्छिन्न' मु। 2. 'सकलकालावस्था' मु । 3. 'धर्मिदृष्टान्तादि' म । 4. 'नाप्रतिभासमाना' मु । 5. 'यः' नास्ति अ ब स । 6. 'स्यात्' नास्ति म । 7. 'क्रान्ततायामपि' मु । 8. 'तया' मु । 9. 'एकानेकरूपताया' म । 10. 'गण' नास्ति म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org