________________
प्रमाणलक्षण-परीक्षा : २३ ज्ञानवत्, इति; तेषां फलज्ञानेन हेतो'व्यभिचारः; कर्मत्वेनाप्रतीयमानस्यापि फलज्ञानस्य प्राभाकरैः प्रत्यक्षत्ववचनात् । तस्य क्रियात्वेन प्रतिभासनात् प्रत्यक्षत्वे प्रमातुरप्यात्मनः कर्तृत्वेन प्रतिभासमानत्वात्प्रत्यक्षत्वमस्तु । तच्च फलज्ञानमात्मनोऽर्थान्तरभूतमनर्थान्तरभूतमुभयं वा । न तावत्सर्वथार्थान्तरभूतमनर्थान्तरभूतं वा, मतान्तरप्रवेशानुषंगात् । नाप्युभयम्, पक्षद्वयनिगदितदूषणानुषक्तेः। कथंचिदनर्थान्तरत्वे तु फलज्ञानादात्मनः कथंचित्प्रत्यक्षत्वमनिवार्यम्, प्रत्यक्षादभिन्नस्य कथंचिदप्रत्यक्षत्वैकान्तविरोधात् । एतेनाप्रत्यक्ष एवात्मेति प्रभाकरमतमपास्तम् ।
$ ४८. यस्य तु करणज्ञानवत्फलज्ञानमपि परोक्षं पुरुषः प्रत्यक्ष इति मतम्, तस्यापि पुरुषात्प्रत्यक्षात्कथंचिदभिन्नस्य फलज्ञानस्य करणज्ञानस्य च प्रत्यक्षतापत्तिः कथंचित्कथमपाक्रियेत । ततो न भट्टमतमपि विचारणां प्रांचति इति।स्वव्यवसायात्मकं सम्यग्ज्ञानं अर्थपरिच्छित्तिनिमित्तत्वात्, आत्मवदिति व्यवतिष्ठते । नेत्रालोकादिभिर्व्यभिचारः साधनस्येति न मन्तव्यम्, तेषामुपचारतोऽर्थपरिच्छित्तिनिमित्तत्ववचनात्, परमार्थतः प्रमातुः प्रमाणस्य च तन्निमित्तत्वघटनात् ।
[प्रधानपरिणामज्ञानवादिनां कापिलानां मतनिरासः ] $ ४९. अत्रापरः कपिलमतानुसारी प्राह-न सम्यग्ज्ञानं स्वव्यसायात्मकम्, अचेतनत्वात्, घटादिवत्। न तच्चेतनम्, अनित्यत्वात्, तद्वत् । तदनित्यं चोत्पत्तिमत्त्वात् , विद्युदादिवत् । यत्तु स्वसंवेद्यं तच्चेतनं नित्यमनुत्पत्तिधर्मकं च सिद्धम्, यथा पुरुषतत्त्वम्, इति; सोऽपि न न्यायवेदी; व्यभिचारिसाधनाभिधानात्। उत्पत्तिमत्त्वं हि तावदनित्यतां व्यभिचरति, निर्वाणस्यानन्तस्याप्युत्पत्तिमत्त्वात् । तथैवानित्यत्वमचेतनात्वं व्यभिचरति, पुरुषभोगस्य कादाचित्कस्य बुद्धयध्यवसितार्थापेक्षस्य चेतनत्वेऽप्यनित्यत्वसमर्थनात् । अचेतनत्त्वं तु सम्यग्ज्ञानस्यासिद्धमेव' । तस्मादचेतनाद्विवेकख्यातिविरोधात् । चेतनसंसर्गाच्चेतनं ज्ञानमित्यपि वार्तम्, शरीरादेरपि चेतनत्वप्रसंगात् । ज्ञानस्य चेतनसंसर्गो विशिष्ट इति चेत्, स कोऽन्य; कथंचित्तादात्म्यात्। ततश्चेतनात्मकमेव ज्ञानं मन्तव्यमित्यचेतनत्व:मसिद्धम्।
___1. 'फलज्ञानहेतो-' मु। 2. 'प्रभाकरैः' अ स । 3. 'प्रतिभासमानात्' मु । 4. 'अपाक्रियते' मु। 5. 'घटवत्' । 6. 'उत्पत्तिनिमित्तत्वात्' मु। 7. 'अशुद्धमेव' मु। 8. 'मचेतनमसिद्धं' मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org