________________
२४ : प्रमाण-परीक्षायां
६५०. यदप्यभ्यधायि सांख्यैः-ज्ञानमचेतनं प्रधानपरिणामत्वात्, महाभूतवदिति, तदपि न श्रेयः, पक्षस्य स्वसंवेदनप्रत्यक्षबाधितत्वात् । प्रतिवादिनः कालात्ययापदिष्टत्वाच्च साधनस्य । तथानुमानबाधितश्च पक्षः परं प्रति, चेतनं ज्ञानं स्वसंवेद्यत्वात्. पुरुषवत् । यत्तु न चेतनं न तत्स्वसंवेद्यम्, यथा कलशादीति व्यतिरेकनिश्चयात् नेदमनुमानं गमकम् । ज्ञानस्य स्वसंवेद्यत्वमसिद्धमिति चेत्, न; तस्यास्वसंवेद्यत्वेऽर्थसंवेदनविरोधादित्युक्तप्रायम्।
[भूतचैतन्यवादिनश्चार्वाकस्य मतनिरासः ] . ५१. एतेन 'न स्वसंवेद्यं विज्ञानम्, कायाकारपरिणतभूतपरिणामित्वात्, पित्तादिवत्', इति वदंश्चार्वाकः प्रतिक्षिप्तः । न चेदं साधनं सिद्धम्, भूतविशेषपरिणामत्वासिद्धेः संवेदनस्य, बाह्येन्द्रियप्रत्यक्षत्वप्रसंगात्, गन्धादिवत् । सक्ष्मभतविशेषपरिणामत्वान्न बाह्येन्द्रियप्रत्यक्षं ज्ञानमिति चेत्, स तर्हि सूक्ष्मो भूतविशेषः स्पर्शादिभिः परिवजितः स्वयमस्पर्शादिमान् संवेदनोपादानहेतुः सर्वदा बाह्येन्द्रियाविषयः कथमात्मैव नामान्तरेण निगदितो न भवेत् । तस्य ततोऽन्यत्वे भतचतुष्टयविलक्षणत्वात्तत्त्वान्तरापत्तिर दष्टपरिकल्पना च प्रसज्येत । तथात्मनः प्रमाणसिद्धत्वात्तत्परिणामस्यैव ज्ञानस्य घटनात् । तत इदं व्यवतिष्ठते - स्वव्यवसायात्मकं सम्यग्ज्ञानम्, चेतनात्मपरिणामत्वे सत्यर्थपरिच्छेदकत्वात् । यत्त न स्वव्यवसायात्मकं न तत्तथा, यथा घटः, तथा च सम्यग्ज्ञानम्, तस्मात्स्वव्यवसायात्मकमिति सम्यग्ज्ञानलक्षणं प्रमाण सिद्धम् ।
[ तत्त्वोपप्लववादिनो मनिरासः ] ६५१. ननु प्रमाणतत्त्वस्य प्रमेयतत्त्ववदुपप्लुतत्वान्न तत्त्वतः किंचिप्रमाणं संभवति, इति कस्य लक्षणमभिधीयते, लक्ष्यानुवांदपूर्वकत्वाल्लक्षणविधानस्य । प्रसिद्धं लक्ष्यमनूद्य लक्षणं विधीयत इति लक्ष्यलक्षणभाववादिभिरभ्युपगमात्, इति केचिदभ्यमंसत, तेषां तत्त्वोपप्लवमात्रमिष्टं यदि 10 साधयितुम्, तदा साधनमभ्युपगन्तव्यम् । तच्च प्रमाणमेव
1. 'वादिनः' अ द । 2. 'बाधितः' मु । 3. 'सूक्ष्मविशेषः' मु । 4. 'तत्त्वान्तरन्तरतापत्तिः' सब। 5. 'प्रसज्यते' अद। 6. 'यन्न' ब । 7. 'घटादिकं, तथा च' ब। 8. 'लक्षणाभिधानस्य' म ब द। 9. 'केचिदमंसत' म्। 10. 'यदि' नास्ति मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org