________________
प्रमाणलक्षण-परीक्षा : २५ भवितुमर्हति । तथा चेदमभिधीयते-तत्त्वोपप्लववादिनोऽप्यस्ति प्रमाणम्, इष्टसाधनान्यथानुपपत्तेः । प्रमाणाभावेऽपीप्टसिद्धौ सर्वं सर्वस्य यथेष्टं सिद्धयेदित्यनुपप्लुततत्त्वसिद्धिरपि किं न स्यात्, सर्वथा विशेषाभावात् ।
५३. स्यादाकूतम्-न स्वेष्टं विधिप्राधान्येन साध्यते, येन तत्त्वोपप्लवं साधयतः प्रमाणसिद्धिः प्रसज्येत। किं तहि। पराभ्युपगतप्रमाणादितत्त्वनिराकरणसामर्थ्यात् परीक्षकजनमनस्तत्त्वीपप्लवमनुसरति, गत्यन्तराभावात् ।
$ ५४. तथा हि-प्रमाणत्वं कस्यचित्किमदुष्टकारणजन्यत्वेन बाधारहितत्वेन वा प्रवृत्तिसामर्थ्येन वार्थक्रियाप्राप्तिनिमित्तत्वेन वा व्यवतिष्ठेत । न तावददुष्टकारणजन्यत्वेन', तस्य प्रत्यक्षतो गृहीतुमशक्तः, करणकुशलादेरपि प्रमाणकारणत्वात् । तस्य चातीन्द्रियत्वोपगमात् । न चानुमानमदुष्टं कारण मुन्नेतुं समर्थम्, तदविनाभाविलिंगाभावात् । सत्यज्ञानं लिंगमिति चेत्; न; परस्पराश्रयणात् । सति ज्ञानस्य सत्यत्वे तत्कारणस्यादुष्टत्वनिश्चयात् तस्मिन्सति ज्ञानस्य सत्यत्वसिद्धेः ।।
५५. यदि पुनर्बाधारहितत्वेन संवेदनस्य प्रमाणत्वं साध्यते, तदा कि कदाचित्क्वचित्कस्यचिद्बाधकानुत्पत्त्या' तत्सिद्धिराहोस्वित् सर्वत्र सर्वदा सर्वस्य प्रतिपत्तुधिकानुत्पत्तेरिति पक्षद्वयमवतरति । प्रथमपक्षे, मरीचिकाचक्रे सलिलसंवेदनमपि प्रमाणमासज्येत , दूरस्थितस्य तत्संवेदनकाले कस्यचित्प्रतिपत्तुबर्बाधकानुत्पत्तेः । द्वितीयपक्षे तु, सकलदेशकालपुरुषाणां बाधकानुत्पत्तिः कथमसर्वविदाऽवबोद्ध शक्येत, तत्प्रतिपत्तुः11 सर्ववेदित्वप्रसंगात् ।
$ ५६. यदि पुनः प्रवृत्तिसामर्थ्येन ज्ञानस्य प्रामाण्यमुन्नीयते, तदा प्रमाणेनार्थमुपलब्धवतस्तदर्थ प्रवृत्तिर्यदीष्यते तद्देशोपसर्पणलक्षणा तस्याः सामर्थ्य च फलेनाभिसम्बन्धः सजातीयज्ञानोत्पत्तिर्वा तदा इतरेतराश्रयदोषो दुरुत्तरः स्यात् । सति संवेदनस्य प्रमाणत्वनिश्चये तेनार्थप्रतिपत्ती
1. 'भवति' मु। 2. 'जनयतः' मु। 3. 'व्यवतिष्ठते' मुस। 4. 'अदुष्टजन्यत्वेन' मु। 5. 'अदुष्ट कारणं' अ। 6. 'प्रामाण्यं' मुद। 7. 'क्वचिद्बाधकानु'मुद। 8. 'आसज्यते' मुद। 9. 'अनुपपत्तिः' अ। 10. 'विदो' म द अ। 11. 'तत्तत्प्र-' मुद अ। 12. 'तदेतराश्रय-' मु, 'तदितरेतराश्रय...' अ ब स । 13. 'संवेदनप्रमाणत्व-' मुद।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org