________________
२६ : प्रमाण-परीक्षायां प्रवृत्तेः तत्सामर्थ्यस्य च घटनात्, प्रवृत्तिसामर्थ्यस्य निश्चये च तेनार्थसंवेदनस्य प्रमाणत्वनिर्णीतेः । प्रकारान्तरासंभवात् ।
५७. अथार्थक्रियाप्राप्तिनिमित्तत्वेन संवेदनं प्रमाणतामास्कन्दति, तदा कुतस्तस्य तन्निश्चयः स्यात् । प्रतिपत्तुरर्थक्रियाज्ञानादिति चेत्, कतस्तस्य प्रमाणत्वसिद्धिः । परार्थक्रियाप्राप्तिनिमित्तत्वेनेति चेत् तत्कुतः सिद्धयेत् । तदर्थक्रियाज्ञानान्तराच्चेत्, कथमनवस्था न भवेत् । अथाद्यसंवेदनादेवार्थक्रियाज्ञानस्य प्रामाण्यं मन्यते, तदा परस्पराश्रयदोषः । सत्यर्थक्रियाज्ञानस्य प्रमाणत्वनिश्चये तबलादाद्यसंवेदनस्यार्थक्रियाप्राप्तिनिमित्तत्वेन प्रामाण्यनिश्चयस्तत्प्रामाण्यनिश्चयाच्चार्थक्रियासंवेदनस्य प्रमाणतासिद्धिः, कारणान्तराभावात् । ततो न प्रमाणतत्त्वं विचार्यमाणमवतिष्ठते । तदवस्थानाभावे च न प्रमेयतत्त्वसिद्धिरिति ।
५८. तदेतत्सकलं प्रलापमात्रम्, पराभिमतप्रमाणतत्त्वनिराकरणस्य स्वयमिष्टस्य प्रमाणमन्तरेण सिद्धययोगात्। तस्यानिष्टत्वे साधनानुपपत्तेः। परपर्यनुयोगमात्रस्य करणाददोषोऽयम् । 'परपर्यनुयोगपराणि हि बृहस्पतेः सूत्राणि[ ] इति वचनात्सर्वत्र स्वातंत्र्याभावात्, इत्येतदपि यत्किचनभाषणमेव, किमदुष्टकारणजन्यत्वेन प्रामाण्यं साध्यते बाधारहितत्वेन वेत्यादिपक्षाणां क्वचिन्निर्णयाभावे सन्देहासंभवात्परपर्यनुयोगायोगात् ।
$ ५९. स्यादाकूतम्-पराभ्युपगमात् तन्निश्चयसिद्धेः संशयोत्पत्तेर्युक्तः प्रश्नः। तथा हि-मीमांसकाभ्युपगमात् तावददुष्टकारणजन्यत्वं बाधावजितत्वं च निर्णीतं निश्चितत्वापूर्वार्थत्वलोकसम्मतत्ववत् । तदुक्तम् -
तत्रापूर्वार्थविज्ञानं निश्चितं बाधवजितम् ।
अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् ।। [ ] तथा प्रवृत्तिसामर्थ्यमपि नैयायिकाभ्युपगमान्निर्णीतम्
'प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम्' [ ] इति वचनात् । तथार्थक्रियाप्राप्तिनिमित्तत्वमविसंवादित्वलक्षणं सौगताभ्युपगमान्निर्णीतमेव
1. 'अर्थक्रियानिमित्त-' मुद। 2. 'परमार्थक्रियाज्ञानान्तराच्चेत्' मुद। 3. 'न प्रमाणत्वं विचार्यमाणं वा व्यवतिष्ठते' मुद । 4. 'प्रमेयत्वसिद्धिः' मुव । 5. 'तस्य स्वयमिष्टत्वे' मुद।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org