________________
प्रमाणलक्षण-परीक्षा : २७ प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितेः।
अविसंवादनं शब्देऽप्यभिप्रायनिवेदनात् ॥ [प्रमाणवा० १-३] इति वचनात् । तदिदानी चार्वाकमताश्रयणेन' सन्दिह्य पर्यनुयुज्यमानं न किंचिदुपालंभमर्हति इति ।
६०. तदेतदपि न व्यवस्थां प्रतिपद्यते; पराभ्युपगमस्य प्रमाणाप्रमाणपूर्वकत्वे संशयाप्रवृत्तेः । तथा हि-यदि परेषामभ्युपगमाः प्रमाणपूर्वकाः, तदा कथं सन्देहः । प्रमाणपूर्वकस्य निर्णीतत्वात् । निर्णीतेः संशयविरोधात् । अथाप्रमाणपूर्वकाः, तदाऽपि न सन्देहः प्रवर्तते, तस्य क्वचित्कदाचित्कथंचिनर्णयपर्वकत्वात् । तन्निर्णयस्यापि प्रमाणपर्वकत्वात् । प्रमाणाभावे सर्वथा तदनुपपत्तेरित्यलं प्रसंगेन, सर्वस्येष्टस्य संसिद्धेः प्रमाणप्रसिद्धरबाधनात्, अन्यथाऽतिप्रसंगसमर्थनादिति ।
६१. एतेन सर्वथा शून्यं संविदद्वैतं पुरुषाद्वैतं शब्दाद्वैतं वा समाश्रित्य प्रमाणप्रमेयप्रविभाग निराकुर्वाणाः प्रत्याख्याताः स्वयमाश्रितस्य सर्वथा शून्यस्य संविदद्वैतादेर्वा कथंञ्चिदिष्टत्वे प्रमाणसंसिद्धर्व्यवस्थापनात् । तस्याप्यनिष्टत्वे तद्वादित्वविरोधात् प्रलापमात्रानुसरणापत्तेः परीक्षकत्वव्याघादिति । तदेवं प्रमाणतत्त्वनिर्णीतौ प्रमेयतत्त्वसिद्धिरपि निर्बाधा व्यवतिष्ठत एव ।
[प्रामाण्यं स्वतः परतो वेति दर्शयति ] ६२. ननु चैवं प्रमाणं सिद्धमपि' किं स्वतः प्रामाण्यमात्मसात्कुर्वीत परतो वा। न तावत्स्वतः, सर्वत्र सर्वदा सर्वस्य तद्विप्रतिपत्त्यभावप्रसंगात् । नापि परतः, अनवस्थानुषंगात्, परापरप्रमाणान्वेषणात्क्वचिदवस्थितेरयोगात् । प्रथमप्रमाणाद् द्वितीयस्य प्रामाण्यसाधने द्वितीयाच्च प्रथमस्य परस्पराश्रयणापत्तेः। प्रकारान्तराभावात् इति केचित्; तेऽपि असमीक्षितवचसः संलक्ष्यन्ते. स्वयमभ्यस्तविषये प्रमाणस्य स्वतः प्रामाण्यसिद्धेः सकलविप्रतिपत्तीनामपि तत्र प्रतिपत्तुरभावात् । अन्यथा
1. 'शब्दो' मु व। 2. 'मतानुसारेण' मु, 'मतानुसरणेन' अ। 3. 'पूर्वकः' द मु। 4. 'पूर्वकः' मुद। 5. 'प्रमाणाभावे प्रामाण्यनिश्चयात् तन्निश्चयनिबन्धनस्य च प्रमाणान्तरस्याभ्यस्तविषयत्वे सर्वथा तदनुपपत्तेः' मुद। 6. 'प्रमेयभागं' मुद। 7. 'प्रमाणसिद्धमपि' मुव । 8. 'कुर्वीति' मु। 9. 'तत्र' नास्ति मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org