________________
२८ : प्रमाण-परीक्षायां तस्य प्रमेये निस्संशयं प्रवृत्त्ययोगात् । तथाऽनभ्यस्तविषये परतः प्रमाणस्य प्रामाण्यनिश्चयात्, तन्निश्चयनिमित्तस्य च प्रमाणान्तरस्याभ्यस्तविषयत्वे स्वतः प्रमाणत्वसिद्धरनवस्थापरस्पराश्रयणयोरनवकाशात् । तस्याप्यनभ्यस्त विषयत्वे परतः प्रमाणादभ्यस्तविषयात्स्वतः सिद्धप्रामाण्याप्रमाणत्वनिश्चयात्सुदूरमपि गत्वा कस्यचिदभ्यस्तविषयस्य प्रमाणस्यावश्यंभावित्वात् । अन्यथा प्रमाणतदाभासव्यवस्थानुपपत्तेः, तदभावव्यवस्थानुपपत्तिवत् ।
६३. कुतः पुनः प्रतिपत्तुः क्वचिद्विषयेऽभ्यासः क्वचिदनभ्यासः स्यात्, इति चेत्; तत्प्रतिबन्धकादृष्टविशेषविगमाभ्या' क्वचिदभ्यासानभ्यासौ स्यातां इति ब्रूमहे, परिदृष्टकारणव्यभिचाराददृष्टस्य कारणस्य सिद्धेः। तत्कर्म ज्ञानावरणवीर्यान्तरायाख्यं सिद्धम्, तस्य क्षयोपशमात्कस्यचित्क्वचित्कदाचिदभ्यासज्ञानं तत्क्षयोपशमाभावे चा नभ्यासज्ञानमिति सुव्यवस्थितं प्रमाणस्य प्रामाण्यम्, सुनिश्चितासम्भवद्बाधकप्रमाणत्वात्, स्वमिष्टवस्तुवत् । सर्वत्रेष्टसिद्धेस्तन्मात्रनिबन्धनत्वात्, अन्यथा सर्वस्य तत्त्वपरीक्षायामनधिकारादिति स्थितमेतत्
प्रमाणादिष्टसंसिद्धेरन्यथाऽतिप्रसंगतः ।
प्रामाण्यं तु स्वतः सिद्धमभ्यासात्परतोऽन्यथा ॥ १॥ ६४. एवं प्रमाणलक्षणं स्वार्थव्यवसायात्मकं सम्यग्ज्ञानं परीक्षितम् । [प्रमाणलक्षणविप्रतिपत्ति निरस्य साम्प्रतं संख्याविप्रतिपत्ति
निराकुर्वन् प्रमाणसंख्यां निरूपयति-] ६५. तत् प्रत्यक्षं परोक्षं चेति संक्षेपाद् द्वितयमेव व्यवतिष्ठते, सकलप्रमाणानामत्रैवान्तर्भावविभावनादिति', परपरिकल्पितैकद्विव्यादिप्रमाणसंख्यनियमे तदघटनात् । तथा हि-येषां प्रत्यक्षमेकमेव प्रमाणं न तेषामनुमानादिप्रमाणान्तरस्य तत्रान्तर्भाव: संभवति, तद्विलक्षणत्वात् । प्रत्यक्षपूर्वकत्वादनुमानादेः प्रत्यक्षेऽन्तर्भाव:, इत्ययुक्तम्, प्रत्यक्षस्यापि कस्यचिदनुमानादिपूर्वकत्वादानुमानादिष्वन्तर्भावप्रसंगात्। यथैव हि धर्मि-हेतु
__ 1. 'तत्प्रतिबन्धकदशाविशेषविगमाभ्यां' मु। 2. 'तन्नः कर्म' मु। 3. 'क्वचिदभ्यास-'म । 4. 'वाइनभ्यास' मु। 5. 'व्यवसायात्मक' मु। 6. 'वेति' मु। 7. '..न्तर्भावादिति विभावनात्' मु । 8. 'प्रमाणान्तरस्यान्तर्भावः' मु । 9. 'प्रत्यक्षभावः' म द । 10. 'क्वचिदनुमानपूर्वक...' मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org