________________
प्रमाणसंख्या-परीक्षा : २९ प्रत्यक्षपूर्वकमनुमानं श्रोत्रप्रत्यक्षपूर्वको च शाब्दं सादृश्यानन्यथाभावनिषेध्याधारवस्तुग्राहिप्रत्यक्षपूर्वकाणि चोपमानार्थापत्त्यभावप्रमाणानि तथानुमानेन कृशानुं निश्चित्य तत्र प्रवर्तमानस्य प्रत्यक्षमनुमानपूर्वकं रूपाद्रसं प्रतिपद्य प्रवृत्तस्य रसे रासनसमक्षवत् । शब्दाच्च मृष्टं पानकमवगम्य तत्र प्रवृत्तौ प्रत्यक्षं शाब्दपूर्वकम् । क्षीरस्य सन्तर्पणशक्तिमर्थापत्त्याऽधिगम्य क्षीरे प्रवृत्तस्य तदात्मके प्रत्यक्षमापत्तिपूर्वकम् । गोसादृश्याद्गवयमवसाय तं व्यवहरतः प्रत्यक्षमुपमानपूर्वकम् । गृहे सर्पाभावमभावप्रमाणाद्विभाव्य प्रविशतः प्रत्यक्षमभावपूर्वकं प्रतीयत एव । प्रत्यक्षमेव गौणत्वादप्रमाणं न पुनरनुमानादिकम्, तस्यागौणत्वादिति शुष्के पतिष्यामीति जातः पातोऽस्य कर्दमे।
६६. स्यादाकूतम्-न प्रत्यक्षमनुमानागमार्थापत्त्युपमानाभावप्रमाणपूर्वकम्, तदभावेऽपि चक्षुरादिसामग्रीमात्रात्तस्य प्रसूतेः प्रसिद्धस्वात् । तदभाव एवाभावनियमादिति।
$ ६७. तदप्यसत्; लैंगिकादीनामपि प्रत्यक्षपूर्वकत्वाभावात्, लिंगशब्दानन्यथाभावसाद श्यप्रतियोगिस्मरणादिसामग्रीसद्भाव एव भावात् । सत्यपि प्रत्यक्षे स्वसामग्र्यभावेऽनुमानादीनामभावात् । ततः किं बहुनोक्तेन, प्रतिनियतसामग्रीप्रभवतया प्रमाणभेदमभिमन्यमानेन प्रत्यक्षवदनुमानादीनामपि अगौणत्वमनुमन्तव्यम्, प्रतिनियतस्वविषयव्यवस्थायां परापेक्षाविरहात् । यथैव हि प्रत्यक्षं साक्षात्स्वार्थपरिच्छित्तौ नानुमानाद्यपेक्षं तथाऽनुमानमनुमेयनिर्णीतौ न प्रत्यक्षापेक्षमुत्प्रेक्षते, प्रत्यक्षस्य मिहेतुदष्टान्तग्रहणमात्रे पर्यवसितत्वात् । नापि शाब्दं शब्दप्रतिपाद्येऽर्थ प्रत्यक्षमनुमानं वाऽपेक्षते', तयोः शब्दश्रवणमात्रे शब्दार्थसम्बन्धानुमितिमात्रे च व्यापारात् । न चार्थापत्तिः प्रत्यक्षमनुमानमागमं वापेक्षते10ऽभावोपमानवत् । तस्याः प्रत्यक्षादिप्रमाणप्रमितार्थाविनाभाविन्यदृष्टेऽर्थे निर्णयनिबन्धनत्वात् । प्रत्यक्षादीनामापत्त्युत्थापकपदार्थनिश्चयमात्रे व्यापृतत्वात्11 । न चोपमानं प्रत्यक्षादीन्यपेक्षते, तस्योपमेयेऽर्थे निश्चयकरणे प्रत्यक्षादिनिर
1. 'श्रोत्रप्रत्ययपूर्वक' म। 2. 'संप्रतिपद्य रसे' मु। 3. 'प्रत्यक्षनुमानपूर्वकं' मु। 4. 'पातः' मु। 5. 'सामग्रीपूर्वकं' मु। 6. 'अभिमन्यमाने' मु । 7. 'चापेक्षते' मु । 8. 'संबंधानुमात्रे' मु। 9. 'नत्वर्थापत्तिः' मु । 10. 'चापेक्षते' मु । 11. 'व्यावृत्तत्वात्' मु। 12. 'निश्चयकारणे' मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org