________________
३० : प्रमाण-परीक्षायां पेक्षत्वात्, प्रत्यक्षादेः सादृश्यप्रतिपत्तिमात्रेऽधिकारात्। न चाभावप्रमाणं प्रत्यक्षादिसापेक्षम्, निषेध्याधारवस्तुग्रहणे तस्य सामर्थ्यात् । परम्परयानुमानादीनां प्रत्यक्षपूर्वकत्वे प्रत्यक्षस्याप्यनुमानादिपूर्वकत्वं दुःशक्यं परिहर्तुम् ।
$ ६८. कथं चायं प्रत्यक्षं प्रमाणं व्यवस्थापयेत् । स्वत एवेति चेत्, किमात्मसम्बन्धि सर्वसम्बन्धि वा । प्रथमकल्पनायां न सकलदेशकालपुरुषपरिषत्प्रत्यक्षं प्रमाणं सिद्धयेत् । द्वितीयकल्पनायामपि न स्वप्रत्यक्षात्सकलपरप्रत्यक्षाणां प्रामाण्यं साधयितुमीशः, तेषामतीन्द्रियत्वात्, वादिप्रत्यक्षागोचरत्वात् ।
$ ६९. यदि पुनः सकलपुरुषप्रत्यक्षाणि स्वस्मिन् स्वस्मिन् विषये स्वतः प्रामाण्यमनुभवन्ति, इति मतम्, तदा कुतस्तत्सिद्धिः । विवादाध्यासितानि सकलदेशकालवर्तिपूरुषप्रत्याणि स्वतः प्रामाण्यमापद्यन्ते प्रत्यक्षत्वात्, यद्यत् प्रत्यक्षं तत्तत् स्वतः प्रामाण्यमापद्यमानं सिद्धम्, यथा मत्प्रत्यक्षम्, प्रत्यक्षाणि च विवादाध्यासितानि, तस्मात्स्वतः प्रामाण्यमापद्यन्त इति सकलप्रत्यक्षाणां स्वतः प्रामाण्यसाधने सिद्धमनुमानम्, प्रत्यक्षत्वेन स्वभावहेतुना प्रत्यक्षस्य स्वतः प्रामाण्यसाधनात्, शिंशपात्वेन वनस्पतेः वृक्षत्वसाधनवत् । प्रतिपाद्यबुद्धया तथानुमानवचनाददोष इति चेत्, प्रतिपाद्यबुद्धि प्रतिपद्याप्रतिपद्य वा तयानुमानप्रयोगःस्यात् । न तावदप्रतिपद्य, अतिप्रसंगात् । प्रतिपद्य परबुद्धि तयाऽनुमानप्रयोगे कुतस्तत्प्रतिपत्तिः । व्याहारादि कार्यविशेषादिति चेत्, सिद्धं कार्यात्कारणानुमानम्', धूमात्पावकानुमानवत् । यदि पुनर्लोकव्यवहारं प्रति प्रतिपद्यत एवानुमानं लोकायतिकैः, परलोकादावेवानुमान स्य निराकरणात्, तस्याभावात्, इति मतम्, तदापि कुतः परलोकाद्यभावप्रतिपत्तिः । न तावत्प्रत्यक्षात्, तस्य तदगोचरत्वात् । 'नास्ति परलोकादिः, अनुपलब्धेः, खपुष्पवत्', इति तदभावसाधनेऽनुपलब्धिलक्षणमनुमानमायातम् । तदुक्तं धर्मकीर्तिना
1. 'अनधिकारात्' मु। 2. 'प्रत्यक्षपूर्वकत्वं' मु। 3. 'अनीन्द्रियत्वात्' मु। 4. 'आपद्यन्ते' मु। 5. 'तद्बुद्धि' मु । 6. 'व्यवहारादि' मु। 7. 'करणानुमानं' अ। 8. 'व्यवहारात् प्रतिपद्यत' मु। 9. 'परलोकादेवानुमान-' मु। 10. 'परलोकाभाव' अब स।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org