________________
प्रमाणसंख्या-परीक्षा : ३१ प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः। प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥ [ ] इति ।
७०. ततः प्रत्यक्षमनुमानमिति द्वे एव प्रमाणे, प्रमेयद्वैविध्यात् । न ह्याभ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यत इति प्रमाणसंख्यानियमं सौगताः प्रतिपद्यन्ते, तेषामागमोपमानादीनां प्रमाणभेदानामसंग्रह एव, तेषां प्रत्यक्षानुमानयोरन्तर्भावयितुमशक्तेः ।
$ ६९. स्यान्मतिरेषा भवतां-तदर्थस्य द्वैविध्यात् द्वयोरन्तर्भावः स्यात् । द्विविधो ह्यर्थः प्रत्यक्षः परोक्षश्च । तत्र प्रत्यक्षविषयः साक्षत्क्रियमाणः प्रत्यक्षः। परोक्षः पुनरसाक्षात्परिच्छिद्यमानोऽनुमेयत्वादनुमानविषयः। स हि पदार्थान्तरात्साक्षत्क्रियमाणात्प्रतिपद्यते। तच्च पदार्थान्तरं तेन परोक्षेणार्थेन संबद्धं तं प्रत्याययितुं समर्थ नासंबद्धम्, गवादेरप्यश्वादेः प्रतीतिप्रसंगात् । संबद्धं चार्थान्तरं लिंगमेव' शब्दादि तज्जनितं च ज्ञानमनुमानमेव । ततो न परोक्षेऽर्थेऽनुमानादन्यत्प्रमाणमस्ति, शाब्दोपमानादीनामपि तथाऽनुमानत्वसिद्धेः। अन्यथा ततोऽर्थप्रतिपत्तौ अतिप्रसंगात् इति ।
७०. तदेतदपि न परीक्षाक्षमम्, प्रत्यक्षस्यापि तथाऽनुमानत्वप्रसंगात्। प्रत्यक्षमपि हि स्वविषये संबद्धं तत्प्रत्यायनसमर्थम् । तत्रासंबद्धस्यापि तत्प्रत्यायनसामर्थ्य सर्वं प्रत्यक्ष सर्वस्य नुः सर्वार्थप्रत्यायनसमर्थं स्यादिति कथमतिप्रसंगो न स्यात् । यदि पुनः संबंधाधीनत्वाविशेषेऽपि प्रत्यक्षपरोक्षार्थप्रतिपत्तेः साक्षादसाक्षात्प्रतिभासभेदात् भेदोऽभ्युपगम्यते प्रमाणान्तरत्वेन, तदेन्द्रियप्रत्यक्ष-स्वसंवेदन-मानस-योगिप्रत्यक्षाणामपि प्रमाणान्तरत्वानुषंगः प्रतिभासभेदाविशेषात् । न हि यादृशः प्रतिभासो योगिप्रत्यक्षस्य विशदतमस्तादृशोऽक्षज्ञानस्याप्यस्ति स्वसंवेदनस्य मनोविज्ञानस्य वा । यथाभूतश्च स्वसंवेदनप्रत्यक्षस्यान्तर्मुखो विशदतरः न तथाभूतोऽक्षज्ञानस्य । यादृशश्चाक्षज्ञानस्य बहिर्मुखः स्फुट: प्रतिभासो न तादृशो, मनोविज्ञानस्येति कथं प्रमाणान्तरता न भवेत् ।
७१. अथ प्रतिभासविशेषेऽपि चतुर्विधमपि प्रत्यक्षमेक मेव न
. 1. 'तद् द्वयोः' स। 2. 'तेन' नास्ति अ। 3. 'सम्बद्ध प्रत्ययायितुं म। 4. 'शब्दोप' म्। 5. 'सर्वप्रत्यक्षं' म्। 6. 'तदेन्द्रियस्वसंवेदन-'म । 7. 'प्रत्यक्षान्तर्मुखो' म । 8. तच्चतुर्विधमपि' म्। 9. 'प्रत्यक्षमेव' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org