SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ३२ : प्रमाण-परीक्षायां प्रमाणान्तरम्, तर्हि प्रत्यक्षानुमानयोः प्रतिभासभेदेऽपि स्वविषयसंबद्धत्वाविशेषात् प्रमाणान्तरत्वं माभूत् । $ ७२. यदि पुनः स्वविषयसंबद्धत्वाविशेषेऽपि प्रत्याक्षानुमानयोः सामग्रीभेदात् प्रमाणान्तरत्वमुररीक्रियते, तदा शाब्दोपमानादीनामपि तत एव प्रमाणान्तरत्वमुररीक्रियताम्। यथैव हि अक्षादिसामग्रीतः प्रत्यक्षं लिंगसामग्रीतोऽनुमानं प्रभवतीति तयोः सामग्रीभेदः तथागमः शब्दसामग्रीतः प्रभवति, उपमानं च सादृश्यसामग्रीतः अर्थापत्तिश्च परोक्षार्थाविनाभतार्थमात्रसामग्र्याः, प्रतिषेध्याधारवस्तुग्रहणप्रतिषेध्यस्मरणसामग्र्याश्चाभाव इति प्रसिद्धः शाब्दादीनामपि सामग्रीभेदः । तत एवाक्षज्ञानादिप्रत्यक्षचतुष्टयस्य भेदप्रसिद्धः। न हि तस्यार्थभेदोऽस्ति, साक्षाक्रियमाणस्यार्थस्याविशेषात् । तल्लिगशब्दादिसामग्रीभेदात्परोक्षार्थविषयत्वाविशेषेऽप्यनुमानागमादीनां भेदप्रसिद्धिरिति नानुमानेऽन्तर्भावः सम्भवति । $ ७३. तथा साध्यसाधनसंबंधव्याप्तिप्रतिपत्तो न प्रत्यक्षं समर्थम्, 'यावान् कश्चिद्धूमः स सर्वः कालान्तरे देशान्तरे च पावकजन्मा, अन्यजन्मा वा न भवति' इत्येतावतो व्यापारान् कर्तुमसमर्थत्वात्, सन्निहितार्थमात्रादुत्पत्तेरविचारकत्वाच्च । योगिप्रत्यक्षं तत्र समर्थमिति चेत्, न, देश-सकलयोगिप्रत्यक्षविकल्प द्वयानतिक्रमात् । देशयोगिनः प्रत्यक्षं व्याप्तिप्रतिपत्ती समर्थमित्ययुक्तम्, तत्रानुमानवैयर्थ्यात् । न हि [ देश ] योगिप्रत्यक्षेण साक्षात्कृतेषु साध्यसाधनविशेषु अशेषेषु फलवदनुमानम् । अथ सकलयोगिप्रत्यक्षेण व्याप्तिप्रतिपत्तावदोष इति चेत्, न, उक्तदोषस्यात्रापि तदवस्थत्वात् । परार्थं फलवदर्शनुमानमिति चेत्, न, तस्य स्वार्थानुमानपूर्वकत्वात् । स्वार्थानुमानाभावे च योगिनः कथं परार्थानुमानं' नाम ? ७४. यदि पुनः सकलयोगिनः परानुग्रहाय प्रवृत्तत्वात्, परानुग्रहस्य च शब्दात्मकपरार्थानुमानमन्तरेण कत्तु मशक्तेः परार्थानुमानसिद्धिः, तस्याश्च स्वार्थानुमानासंभवेऽनुपपद्यमानत्वात् स्वार्थानुमानसिद्धिरपि परप्रतिपादनप्रवृत्तस्य संभाव्यत एवेति मतम्, तदा स योगी स्वार्थानुमाने चतुरार्यसत्यानि निश्चित्य परार्थानुमानेन परं प्रतिपादयन् गृहीतव्याप्तिकमगृहीतव्याप्तिकं वा प्रतिपादयेत् । यदि गृहीतव्याप्तिकम्, तदा कुतस्तेन गृहीता 1. 'स्वविषयसंबंधविशेषात् व' मु। 2. 'उपमान' मु । 3. 'प्रभेदप्रसिद्धः' मु। 4. 'अविचारकत्वात्' मु। 5. 'देशकालयोगि...' म्। 6. 'परार्थफलवदनु...' मु । 7. 'परार्थं अनुमान' अ स । 8. 'अनुत्पद्यमानत्वात्' म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001102
Book TitlePramana Pariksha
Original Sutra AuthorVidyanandacharya
AuthorDarbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1977
Total Pages212
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Nyay, P000, & P035
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy