________________
प्रमाणसंख्या-परोक्षा : ३३
व्याप्तिः। न तावदिन्द्रिय-स्वसंवेदन-मनोविज्ञानस्तेषां तदविषयत्वात् । योगिप्रत्यक्षेण गृह्यते व्याप्तिः परेण, तस्यापि देशतो योगित्वात्, इति चेत्, तहि यावत्सू साध्य-साधनभेदेषु योगिप्रत्यक्षं देशयोगिनस्तावत्सु व्यर्थमनमानम् । स्पष्टं प्रतिभातेष्वपि अनुमाने [ स्वीकारे ] सकलयोगिनः सर्वत्रानुमानप्रसंगात् । समारोपव्यवच्छेदार्थमपि न तत्रानुमानम्, योगिप्रत्यक्षविषये समारोपानवकाशात्, सुगतप्रत्यक्षविषयवत् । ततो न गृहीतव्याप्तिकं परं सकलयोगी प्रतिपादयितुमर्हति । नाप्यगृहीतव्याप्तिकम्, अतिप्रसंगात्, इति प्रतिपादनानुपपत्तिः । तस्यां च न परार्थानुमानं संभवति । तदसंभवे च न स्वार्थानुमानमवतिष्ठते सकलयोगिनः । तदव्यवस्थाने च न सकलयोगिप्रत्यक्षेण व्याप्तिग्रहणं युक्तिमधिवसति ।
$ ७५. प्रत्यक्षानुपलंभाभ्यां साध्यसाधनयोाप्तिप्रतिपत्तिरित्यप्यनेनापास्तम्, प्रत्यक्षेण व्याप्तिप्रतिपत्तिनिराकृती प्रत्यक्षान्तरलक्षणेनानुपलंभेनापि तत्प्रतिपत्तिनिराकृतिसिद्धेः ।
६ ७६. योऽप्याह-कारणानुपलंभात्कार्यकारणभावव्याप्तिः। व्यापकानुपलंभाद् व्याप्यव्यापकभावः साकल्येन प्रतिपद्यत इत्यनुमानसिद्धा साध्यसाधनव्याप्तिः। तथा हि-यावान् कश्चिद् धूमः स सर्वोऽप्यग्निजन्मा, महाहृदादिष्वग्नेरनुपलंभाद्धमाभावसिद्धेरिति कारणानुपलंभानुमानम् । यावती शिशपा सा सर्वा वृक्षस्वभावा, वृक्षानुपलब्धौ शिशपात्वाभावसिद्धेरिति व्यापकानुपलभो लिंगम् । एतावता साकल्येन साध्यसाधनव्याप्तिसिद्धिरिति ।
७७. सोऽपि न युक्तवादी; तथानवस्थानुषंगात् । कारणानुपलंभव्यापकानुपलंभयोरपि हि स्वसाध्येन व्याप्तिन प्रत्यक्षतः सिद्धयेत्, पूर्वोदितदोषासक्तेः । परस्मादनुमानात्तत्सिद्धौ कथमनवस्था न स्यात् । प्रत्यक्षानुपलंभपृष्ठभाविनो विकल्पात् स्वयमप्रमाणकात् साध्यसाधनव्याप्तिसिद्धौ किमकारणं प्रत्यक्षानुमानप्रमाणपोषणं क्रियते, मिथ्याज्ञानादेव प्रत्यक्षानुमेयार्थसिद्धेाप्तिसिद्धिवत् । तस्माद्यथा प्रत्यक्ष प्रमाणमिच्छता सामस्त्येन तत्प्रामाण्यसाधनमनुमानमन्तरेण नोपपद्यते इत्यनुमानमिष्टं तथा साध्यसाधनव्याप्तिज्ञानप्रामाण्यमन्तरेण नानुमानोत्थानमस्ति इति तदप्यनुज्ञातव्यम् । तच्चोहाख्यमविसंवादकं प्रमाणान्तरं सिद्धमिति न 'प्रत्यक्षा
1. 'देशयोगित्वात्' मु। 2. 'अनुपलंभेन' मु। 4. 'व्याप्तिज्ञानप्रमाणमन्तरेण' मु।
3. 'यावंती' मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org