________________
३४ : प्रमाण-परीक्षायां नुमाने एव प्रमाणे' इति प्रसाणसंख्यानियमो व्यवतिष्ठते । एतेन वैशेषिकप्रमाणसंख्यानियमो प्रत्याख्यातः ।
६७८. स्यान्मतम्-साध्यसाधनसामान्ययोः क्वचिद् व्यक्तिविशेषे प्रत्यक्षत एव संबंधसिद्धेर्न प्रमाणान्तरमन्वेषणीयम् । यावान् कश्चिद् धूमः स सर्वोऽपि अग्निजन्माऽनग्निजन्मा वा न भवति इत्यूहापोहविकल्पज्ञानस्य न प्रमाणान्तरत्वं संबंधग्राहिसमक्षप्रमाणफलत्वात् । क्वचिदनुमितानुमाने साध्यसाधने ( आदित्ये गमनशक्तिरस्ति गतिमत्वात्, आदित्यो गतिमान् देशाद्देशान्तरप्राप्तेः देवदत्तवत् ) संबंधबोधनिबंधनानुमानफलवत् । ततः प्रत्यक्षमनुमानमिति प्रमाणद्वयसंख्यानियमः कणचरमतानुसारिणां व्यवतिष्ठत एवेति ।
७९. तदप्यसारम्; सविकल्पकेनापि प्रत्यक्षेण साकल्येन साध्यसाधनसंबंधस्य गृहीतुमशक्तः । साध्यं हि किमग्निसामान्यमग्निविशेषोऽग्निसामान्यविशेषो वा। न तावदग्निसामान्यम्, सिद्धसाध्यतापत्तेः । नाप्यग्निविशेषः, तस्यानन्वयात् । बह्निसामान्यविशेषस्य हि साध्यत्वे तेन धमस्य संबंधः सकलदेशकालव्याप्यध्यक्षतः कथं सिद्धयेत् । तथा तत्सम्बन्धासिद्धौ च यत्र यत्र यदा यदा धूमोपलंभः तत्र तत्र तदा तदाऽग्निसामान्यविशेषविषयमनुमानं नोदयमासादयेत् । न ह्यन्यथासंबंधग्रहणमन्यथानुमानोत्थानं नाम, अतिप्रसंगात् । ततः संबंधज्ञानं प्रमाणान्तरमेव, प्रत्यक्षानुमानयोस्तदविषयत्वात् ।
६८०. यच्चोक्तम्-प्रत्यक्षफलत्वादहापोहविकल्पज्ञानस्याप्रमाणत्वमिति'; तदप्यसम्यक् विशेषणज्ञानफलत्वाद्विशेष्यज्ञानस्याप्रमाणत्वानुषंगात् । हानोपादानोपेक्षाबुद्धिफलकारणत्वाद्विशेष्यज्ञानस्य प्रमाणत्वे तत एवोहापोहविज्ञानस्य प्रमाणत्वमस्तु, सर्वथा विशेषाभावात् ।
८१. प्रमाणविषयपरिशोधकत्वान्नोहः प्रमाणमित्यपि वार्तम्, प्रमाणविषयस्याप्रमाणेन परिशोधनविरोधात्। तथा तर्कः प्रमाणम्, प्रमाणविषयपरिशोधकत्वात् । यस्तु न प्रमाणं स न प्रमाणविषयपरिशोधको
1. '..''ज्ञानस्य प्रमाणान्तरत्वं' मु। 2. कोष्टकान्तर्गतपाठो नास्ति अ स । 3. 'अनुमानं फलवत्' मु। 4. 'संबंधगृहीतुं' मु। 5. 'हि' नास्ति बस। 6. 'व्याप्त्यध्यक्षतः' अब स इ। 7. '... फलत्वादहापोहविज्ञानस्याप्रमाणत्वमिति' बस।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org