Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
३२ : प्रमाण-परीक्षायां प्रमाणान्तरम्, तर्हि प्रत्यक्षानुमानयोः प्रतिभासभेदेऽपि स्वविषयसंबद्धत्वाविशेषात् प्रमाणान्तरत्वं माभूत् ।
$ ७२. यदि पुनः स्वविषयसंबद्धत्वाविशेषेऽपि प्रत्याक्षानुमानयोः सामग्रीभेदात् प्रमाणान्तरत्वमुररीक्रियते, तदा शाब्दोपमानादीनामपि तत एव प्रमाणान्तरत्वमुररीक्रियताम्। यथैव हि अक्षादिसामग्रीतः प्रत्यक्षं लिंगसामग्रीतोऽनुमानं प्रभवतीति तयोः सामग्रीभेदः तथागमः शब्दसामग्रीतः प्रभवति, उपमानं च सादृश्यसामग्रीतः अर्थापत्तिश्च परोक्षार्थाविनाभतार्थमात्रसामग्र्याः, प्रतिषेध्याधारवस्तुग्रहणप्रतिषेध्यस्मरणसामग्र्याश्चाभाव इति प्रसिद्धः शाब्दादीनामपि सामग्रीभेदः । तत एवाक्षज्ञानादिप्रत्यक्षचतुष्टयस्य भेदप्रसिद्धः। न हि तस्यार्थभेदोऽस्ति, साक्षाक्रियमाणस्यार्थस्याविशेषात् । तल्लिगशब्दादिसामग्रीभेदात्परोक्षार्थविषयत्वाविशेषेऽप्यनुमानागमादीनां भेदप्रसिद्धिरिति नानुमानेऽन्तर्भावः सम्भवति ।
$ ७३. तथा साध्यसाधनसंबंधव्याप्तिप्रतिपत्तो न प्रत्यक्षं समर्थम्, 'यावान् कश्चिद्धूमः स सर्वः कालान्तरे देशान्तरे च पावकजन्मा, अन्यजन्मा वा न भवति' इत्येतावतो व्यापारान् कर्तुमसमर्थत्वात्, सन्निहितार्थमात्रादुत्पत्तेरविचारकत्वाच्च । योगिप्रत्यक्षं तत्र समर्थमिति चेत्, न, देश-सकलयोगिप्रत्यक्षविकल्प द्वयानतिक्रमात् । देशयोगिनः प्रत्यक्षं व्याप्तिप्रतिपत्ती समर्थमित्ययुक्तम्, तत्रानुमानवैयर्थ्यात् । न हि [ देश ] योगिप्रत्यक्षेण साक्षात्कृतेषु साध्यसाधनविशेषु अशेषेषु फलवदनुमानम् । अथ सकलयोगिप्रत्यक्षेण व्याप्तिप्रतिपत्तावदोष इति चेत्, न, उक्तदोषस्यात्रापि तदवस्थत्वात् । परार्थं फलवदर्शनुमानमिति चेत्, न, तस्य स्वार्थानुमानपूर्वकत्वात् । स्वार्थानुमानाभावे च योगिनः कथं परार्थानुमानं' नाम ?
७४. यदि पुनः सकलयोगिनः परानुग्रहाय प्रवृत्तत्वात्, परानुग्रहस्य च शब्दात्मकपरार्थानुमानमन्तरेण कत्तु मशक्तेः परार्थानुमानसिद्धिः, तस्याश्च स्वार्थानुमानासंभवेऽनुपपद्यमानत्वात् स्वार्थानुमानसिद्धिरपि परप्रतिपादनप्रवृत्तस्य संभाव्यत एवेति मतम्, तदा स योगी स्वार्थानुमाने चतुरार्यसत्यानि निश्चित्य परार्थानुमानेन परं प्रतिपादयन् गृहीतव्याप्तिकमगृहीतव्याप्तिकं वा प्रतिपादयेत् । यदि गृहीतव्याप्तिकम्, तदा कुतस्तेन गृहीता
1. 'स्वविषयसंबंधविशेषात् व' मु। 2. 'उपमान' मु । 3. 'प्रभेदप्रसिद्धः' मु। 4. 'अविचारकत्वात्' मु। 5. 'देशकालयोगि...' म्। 6. 'परार्थफलवदनु...' मु । 7. 'परार्थं अनुमान' अ स । 8. 'अनुत्पद्यमानत्वात्' म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212