________________
प्रमाणलक्षण-परीक्षा : ११ दर्शनं दृश्यविषयं सर्वज्ञानां स्वरूपमात्रपर्यवसितत्वात् । उपचारादेव बहिर्विषयताव्यवहारात् इति; तदप्यसत्; वस्तुनः स्वाकारार्पकत्वस्यापि पूर्वपर्यनुयोगानतिक्रमात् । तद्धि स्वलक्षणं येन स्वभावेन सुगतदर्शनाय स्वाकारमर्पयति तेनैवेतरजनदर्शनाय', स्वभावान्तरेण वा? यदि तेनैव, तदा तदेव सुगतेतरजनदर्शनकत्वमापनीपद्यते । तथा च सर्वस्य सुगतत्वम् इतरजनत्वं वा दुर्निवारतामाचनीस्कन्येत । स्वभावान्तरेण स्वाकारार्पकत्वे स एव वास्तवः स्वभावभेदः स्वलक्षणस्याक्षणतया कथं प्रतिक्षिप्येत। यत्पुनः स्वाकारार्पकत्वमपि न वस्तुनः परमार्थपथप्रस्थायि समवस्थाप्यते स्वरूपमात्रविषयत्वात्सकलसंवेदनानामिति मतम्; तदपि दुरुपपादमेव तेषां वैयर्थ्यप्रसंगात् । ज्ञानं हि ज्ञेयप्रसिद्धयर्थं प्रेक्षवताऽन्विष्यते प्रकाशप्रसिद्धयर्थं प्रदीपवत् । न स्वरूपप्रसिद्धयर्थं प्रदीपवदेवेति । बहिरर्थाविषयत्वे सकलसंवेदनानां कथमिव वैयर्थ्यं न स्यात् । निविषयस्वप्नादिसंवेदनानामपि सार्थकत्वप्रसंगाच्च स्वरूपप्रकाशनस्य प्रयोजनस्य सर्वत्र भावात् ।
६२३. किञ्च, सुगतसंवेदनस्यापि स्वरूपमात्रपर्यवसितायां कथमिव सुगतः सर्वदर्शीष्यते पृथग्जनवत् । पृथग्जनो वा कथं न सर्वदर्शी सुगतवदनुमन्येत । स्वरूपमात्रपर्यवसितायाः तत्संवेदनेऽपि सद्भावात् ।
$ २४. यदि पुनर्न वास्तवं10 सकलवेदित्वं11 तथागतस्योररीक्रियते संवृत्त्या तस्य व्यवहारिभिः12 संव्यवहरणात् । तदव्यवहरणे13 तद्वचनस्य सत्यताव्यवहारानुपपत्तेः सकलज्ञानरहितपुरुषोपदेशाद्विप्रलम्भनशंकनप्रसंगात् । तदुक्तम्
ज्ञानवान् मृग्यते कश्चित्तदुक्तप्रतिपत्तये ।
अज्ञोपदेशकरणे विप्रलंभनशंकिभिः ॥ [ ] इति प्रतिपद्येता तथापि15 न सुगतेतरव्यवहारसिद्धिः, सुगतवदितरजनस्यापि संवृत्त्या सकलवेदित्वपरिकल्पनानुषंगात्।। सकलपदार्थेभ्यः
1. 'दर्शनानां' स। 2. 'नानास्वभावान्तरेण' ब। 3. 'मुपनीपोत' अ। 4. 'आचनीस्कन्द्यते' मु। 5. 'प्रतिक्षिप्यते' म्। 6. प्रेक्षावतामन्विष्यते' मु । 7. 'प्रदीपादिवत्' मु। 8. 'प्रसंगात्' मु। 9. 'पर्यवसिततायाः' ब स द । 10. 'पुनर्वास्तवत्वं' मु। 11. 'ताथागतस्य' म । 12. 'संव्यवहारिभि-' ब द । 13. 'तदव्यहरणे' मु। 14. 'तथापि सुगते-' मु। 15. 'कल्पनानुषंगात्' म । 16. 'प्रतिपाद्यत' बस।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org