________________
१० : प्रमाण-परीक्षायां
रभेदः सम्भवति, व्यावर्त्यमानयोरभेदप्रसंगात् । न च तद्भेदाद्वस्तुनो भेदः, तस्य निरंशत्वात्, अन्यथाऽनवस्थाप्रसंगात् इति परे मन्यन्ते; तेऽपि न सत्यवादिनः; स्वभावभेदाभावे वस्तुनो व्यावृत्तिभेदासंभवात् । नीलस्वलक्षणं हि येन स्वभावेनानीलाद् व्यावृत्तं तेनैव यद्यक्षणिकाद् व्यावर्त्तेत तदा नीलाक्षणिकयो रेकत्वापत्तेस्तद्व्यावृत्त्योरेकत्वप्रसंग: । स्वभावान्तरेण तत्ततो व्यावृत्तमिति वचने तु सिद्धः स्वलक्षणस्य' स्वभावभेदः कथं निराक्रियेत । यदि पुनः स्वाभावभेदोऽपि वस्तुनो तत्स्वभावव्यावृत्या कल्पित एव इति मतम् तदा कल्पित स्वभावान्तरपरिकल्पनाया' मनवस्थानुषज्येत । तथा हि-अनीलस्वभावान्यव्यावृत्तिरपि स्वभावान्तरेण अन्यव्यावृत्तिरूपेण वक्तव्या । सापि तदन्यव्यावृत्तिस्वभावान्तरेण तथाविधेनेति न क्वचिद् व्यवतिष्ठेत' ।
$ २१. कश्चिदाह -- तत एव सकलविकल्पवाग्गोचरातीतं वस्तु, विकल्पशब्दानां विषयस्यान्यव्यावृत्तिरूपस्य अनाद्यविद्योपकल्पितस्य सर्वथा विचारासहत्वात् । विचारसत्वे' तदवस्तुत्वविरोधात् इति; सोऽपि न सम्यग्वादी; दर्शनविषयस्याप्यवस्तुत्वप्रसंगात्, तस्यापि शब्दविकल्पविषयवत् विचारासह त्वाविशेषात् । तथा हि-नीलस्वलक्षणं सुगतेतरजनदर्शन विषयतामुपगच्छत् किमेकेन स्वभावेन नानास्वभावेन वा दृश्यं स्यात् । यद्येकेन स्वभावेन तदा यदेव सुगत दृश्यत्वं तदेवेत - रजन दृश्यत्वमित्या यातमशेषस्य जगतः सुगतत्वम् । यच्चेतरजन दृश्यत्वं तदेव सुगतदृश्यत्वमिति सकलस्य सुगतस्येतरजनत्वापत्तेः सुगतरहितमखिलं स्यात् । अर्थतस्माद्दोषाद्विभ्यता नानास्वभावेन सुगतेतरजनदृश्यत्वं प्रतिपाद्यते; तदा नीलस्वलक्षणस्य दृश्यस्वभावभेद: कथमपह्न येत" । न च दृश्यरूपम् " अनेकं कल्पितमिति शक्यं वक्तुम्, दृश्यस्य कल्पितत्वविरोधात् ।
$ २२. अथ मन्येथाः स्वलक्षणस्य दृश्यत्वं स्वाकारापकत्वमेव तच्चास्वाकारार्प कत्वव्यावृत्तिरूपं 22 नानादृष्टृव्यपेक्षयाऽनेकं घटामटत्येव, तदभावे नानादृष्टृदर्शनविषयतां स्वलक्षणं नास्कन्देत् । न च परमार्थतो
"
1. 'स्वलक्षस्य ' मु । 2. 'निराक्रियते' | 3. 'परिकल्पित' मु अ । 4. 'कल्पना' | 5. 'व्यवतिष्ठते' मु स । 6. 'विद्यापरिकल्पितस्य' स ।
7. 'विचारसत्वे वा' अ मु । 8. 'विचारासहत्वाविरोधात् ' मु । 9. ' तद्यद्येकेन ' मु । 10. ‘अपह्नुयेत’ मु । 11. 'दृश्यं रूपं ' मु स । 12. 'स्वाकारार्पकत्वव्यावृत्तिरूपं ' मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org