________________
प्रमाणलक्षण-परीक्षा : ९ एव दर्शनात् । संस्कारस्य स्मरणस्य च संभवात्, अन्यतस्तदनुपपत्तेः । तदुक्तम्
व्यवसायात्मनो दृष्टः संस्कारः स्मतिरेव वा।
दृष्टे दृष्टसजातीये नान्यथा क्षणिकादिवत् ॥ [ ] इति । $ १९. अथ मतम्-अभ्यास-प्रकरण-बुद्धिपाटवार्थित्वेभ्यो निर्विकल्पादपि दर्शनान्नीलादौ संस्कारः स्मरणं चोपपद्यते, न पुनः क्षणिकादो, तदभावात् । व्यवसायात्मनोऽपि प्रत्यक्षात्तत एव संस्कारस्मरणोपपत्तेः। तेषामभावे निश्चितेऽपि वस्तुनि नियमेन संस्कारादेरभावात् तेषां व्यवसायात्मकसमक्षवादिनोऽपि नियमतोऽभ्युपगमनीयत्वात् इति; तदपि परिफल्गुप्रायम्; भूयोदर्शनलक्षणस्याभ्यासस्य क्षणक्षयादी सुतरां सद्भावात् । पुनः पुनः4 विकल्पोत्पादरूपस्य चाभ्यासस्य परं प्रत्यसिद्धत्वात्, तत्रैव विवादात् । क्षणिकाक्षणिकविचारणायां क्षणिकप्रकरणस्यापि भावात् । बुद्धिपाटवं तु नीलादो क्षणिकादौ च समानम, तद्दर्शनस्यानंशत्वात् । तत्र पाटवापाटवयोर्भेदे तबुद्धेरपि भेदापत्तेः, विरुद्धधर्माध्यासात् । तथाविधतद्वासनाख्यकर्मवशाबुद्धः पाटवापाटवे स्याताम्, इत्यप्यनेनापास्तम्; तत्कर्मसद्भावासद्भावयोरपि विरुद्धधर्मयोरनशबुद्धावेकस्यामसंभवात् । यत्पुनरर्थित्वं जिज्ञासितत्वं तत्क्षणिकवादिनः क्षणिकत्वेऽप्य'ऽस्त्येव, नीलादिवत् । यत्पुनरभिलषितत्वमर्थित्वं तन्न व्यवसायजनननिबन्धनम्, क्वचिदनभिलषितेऽपि वस्तुनि कस्यचिदुदासीनस्य स्मरणप्रतीतेः । इति नाभ्यासादिभ्यः क्वचिदेव संस्कारजननमनंशज्ञानवादिनो घटते। परस्य तु बहिरन्तरनेकान्तात्मक तत्त्ववादिनो न किंचिदनुपपन्नम्, सर्वथैकत्र व्यवसायाव्यवसाययोरवायानवायाख्ययोः, संस्कारासंस्कारयो
र्धारणेतराभिधानयोः, स्मरणास्मरणयोश्चानभ्युपगमात् । तद्भेदात्कथंचिद्बोधबोध्ययो)दप्रसिद्धः।
२०. सौगतस्यापि व्यावृत्तिभेदाङ्गेदोपगमाददोषोऽयम् । तथा हिनीलत्वमनीलत्वव्यावृत्तिः, क्षणिकत्वमक्षणिकत्वव्यावृत्तिरुच्यते । तत्रानौलव्यावृत्तौ नीलव्यवसायस्तद्वासनाप्रबोधादु पन्नो न पुनरक्षणिकव्यावृत्तौ क्षणिकव्यवसायः, तत्र तद्वासनाप्रबोधाभावात् । न चानयोावृत्यो
1. 'इति' नास्ति मु अ । 2. 'चोत्पद्यते' मु । 3. 'फल्गुप्राय' मु। 4. 'पुनपुनः' मु। 5. 'क्षणक्षयादी' मु। 6. 'सद्भावयोरपि' मु। 7. 'क्षणिकत्वेऽस्त्येव' म स। 8. 'उत्पन्नो' म् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org