________________
८ : प्रमाण-परीक्षायां पत्तु!पदर्शकत्व मवतिष्ठते । योगिनस्तु समारोपासंभवात् क्षणक्षयादावपि दर्शनं तदुपदर्शकमेवेति समाधानमपि न धीमद्धृतिकरम्, नीलादावप्ययोगिनस्तद्विपरोतसमारोपप्रसक्तेः। कथमन्यथा विरुद्धधर्माध्यासात्तद्दर्शनभेदो न भवेत् । न ह्यभिन्नमेकं दर्शनं क्वचित्समारोपसमाक्रान्तं क्वचिन्नेति वक्तु युक्तम् । ततो यद्यत्र विपरीतसमारोपविरुद्धं तत्तत्र निश्चयात्मकम्, यथाऽनुमेयेऽर्थेऽनुमानज्ञानम् । विपरीतसमारोपविरुद्धं च नीलादो दर्शनमिति व्यवसायात्मकमेव बुद्धयामहे । निश्चयहेतुत्वाद्दर्शनं नीलादौ विपरीतसमारोपविरुद्धं न पुननिश्चयात्मकत्वात्ततोऽन्यथानुपपत्तिः साधनस्यानिश्चिततेति मामस्थाः; योगिप्रत्यक्षेऽप्यस्य विपरीतसमारोपस्य प्रसंगात्, तेन तस्याविरोधात् । परेषां तु तस्यापि निश्चयात्मकत्वात्तेन विरोधः सिद्ध एव । तथा निश्चयहेतुना दर्शनेन विरुद्धं समारोपं प्रतिपादयतः स्वमतविरोधः स्यात् । निश्चयारोपमनसोर्बाध्यबाधकभाव इति धर्मकीर्तेरभिमतत्वात् दर्शनारोपयोविरोधाभावसिद्धेः ।
$ १६. ननु चार्थदर्शनस्य निश्चयात्मकत्वे साध्ये प्रत्यक्षविरोधः, संहृतसकलविकल्पदशायां रूपादिदर्शनस्यानिश्चयात्मकस्यानुभवात् । तदुक्तम् -
संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ [ ] इति । $ १७. तथानुमानविरोधोऽपि,व्युत्थित चित्तावस्थायामिन्द्रियादर्थगतो कल्पनानुपलब्धेः । तत्र कल्पनासद्भावे पुनस्तत्स्मृतिप्रसंगः तदा विकल्पितकल्पनावत् । तदप्युक्तम्
पुनर्विकल्पयन् किंचिदासीन्मे कल्पनेदशी। इति वेत्ति पूर्वोक्तावस्थायामिन्द्रियाद्गतो॥ [ ] इति ।
१८. तदेतदपि धर्मकीर्तेरपरीक्षिताभिधानम्, प्रत्यक्षतो निर्विकल्पकदर्शनस्याप्रसिद्धत्वात् । संहृतसकलविकल्पावस्था ह्यश्वं विकल्पयतो गोदर्शनावस्था । न च तदा गोदर्शनमव्यवसायात्मकम्, पुनः स्मरणाभावप्रसंगात्, तस्य संस्कारकारणत्वविरोधात्, क्षणिकत्वादिवत् । व्यवसायात्मन
1. 'उपदेशकत्व' मु। 2. 'एकदर्शन' मु अ। 3. 'समारोपाक्रान्तं' म । 4. प्रत्यक्षेऽस्य' मु, 'प्रत्यक्षे' अ। 5. विरुद्ध प्रतिपादयतः' म्। 6. 'अनुभवनात्' अ ब द । 7. स प्रती 'अपि' नास्ति । 8. 'व्युच्छित्त, मु। 9. निविकल्पदर्शनाप्रसिद्धत्वात्' म्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org