________________
प्रमाणलक्षण-परीक्षा : ७
न्तरं तु निर्विकल्पकं विकल्पात्मकं वा । न तावन्निर्विकल्पकम्, तस्य दश्य-विकल्प्यद्वयविषयत्वविरोधात् । नापि विकल्पात्मकम्, तत एव । न चे तदुभयाविषयं संवेदनं तदुभयैकत्वमध्यवसातुं समर्थम् । तथाहि - यद्यन्न विषयीकुरुते न तत्तदेकत्वमध्यवस्यति, यथा रससंवेदनं स्पर्शरूपोभयम्, न विषयोकुरुते च दश्यविकल्प्योभयं किंचित्संवेदनम्, इति न कुतश्चिद् दृश्यविकल्प्योरेकत्वाध्यवसायः सिद्धयेत् । ततो न व्यवसायो वस्तूपदर्शकः स्यात् । नापि तदुपजननादर्शनं स्वविषयवस्तूपदर्शकम्, योगिप्रत्यक्षस्य विधूतकल्पनाजालस्य सर्वदा वस्तु विकल्पाजनकत्वात् तदुपदर्शकत्वविरोधात् । स्वसंवदेनमपि न तस्य स्वरूपोपदर्शकम्, तद्विकल्पानुत्पादकत्वात्, इति कुतः स्वरूपस्य स्वतो गतिरवतिष्ठेत ।
१४. किंच दर्शनपृष्ठभाविनो विकल्पस्य स्वसंवेदनबलासिद्धी तत्स्वसंवेदनं कुतः प्रमाणं स्यात् । तद्यदि स्वरूपोपदर्शनादेव प्रमाणमास्थीयेत, तदा स्वर्गप्रापणशक्त्यादावपि प्रमाणतामास्कन्देत् । तत्स्वसंविदाकार एव प्रमाणम्, तद्वयवसायजनात्, न पुनरन्य त्रेति परिकल्पनायां तद्वयवसायस्वसंवेदनस्यापि व्यवसायान्तरोपजननात् स्वरूपोपदर्शनेन भवितव्यमित्यनवस्थानात् नाद्यव्यवसायस्वसंवेदनस्य प्रामाण्यम् । तदप्रामाण्ये च न तत एव व्यवसायसिद्धिः । तदसिद्धौ च न तज्जननादर्शनस्य स्वविषयोपदर्शकत्वम् । तदभावे च न तस्य प्रवर्तकत्वम् । अप्रवत्तकस्य नार्थप्राप्तिनिमित्तत्वम् । तदसंभवे च नाविसंवादकत्वम् । तद्विरहे च न सम्यग्ज्ञानत्वं स्वसंवेदनेन्द्रियमनोयोगिज्ञानानामिति न तैर्व्यभिचारः साधनस्य सम्भवति ।
$ १५. स्यान्मतम्-अर्थसामर्थ्यादुत्पत्तिः, अर्थसारूप्यं च दर्शनस्य स्वविषयोपदर्शकत्वम्, तच्च सकलसमक्षवेदनानामव्यवसायत्मकत्वेऽपि संभवत्प्रवर्तकत्वमर्थप्रापकत्वमविसंवादित्वं सम्यग्ज्ञान लक्षणमिति तैः समीचीन निर्व्यभिचार एव हेतोरिति; तदपि दुर्घटमेव; क्षणक्षयादावपि तदुपदर्शकत्व प्रसंगात् । तत्राक्षणिकत्वादिसमारोपानुप्रवेशादयोगिनः प्रति
1. तद्वयाविषयं' मु। 2. 'तथाहि' शब्दस्याने 'यद्यन्न' शब्दाच्च पूर्व किंचित्संवेदनं दृश्यविकल्प्योरेकत्वं नाध्यवस्यति, तदुभयाविषयत्वात्' इत्यतिरिक्तः पाठो स प्रतावुपलभ्यते । 3. 'वस्तुनि विकल्प' अ स व । 4. 'विरोधाच्च' अव । 5. 'तद्विकल्पाननुत्पादक' अ। 6. स प्रतो 'च' नास्ति । 7. 'संवेदनं' स । 8. 'संवेदनानां' स। 9. 'सम्यग्ज्ञानत्व' अब द । 10. 'समीचीनज्ञानैः' बस व। 11. 'तदुपदेशकत्व' मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org