________________
६ : प्रमाण-परीक्षायां
विषयत्वसिद्धेः । न हि पुरुषं हस्ते गृहीत्वा ज्ञानं प्रवतंयति । स्वविषयं तूपदर्शयत् प्रवर्त्तकमुच्यते अर्थप्रापकं चेत्यविसंवादकं सम्यग्वेदनं प्रमाणम्, तद्विपरीतस्य मिथ्याज्ञानत्वप्रसिद्धः, संशयादिवत्, इति धर्मोत्तरमतम् । तत्राव्यवसायात्मकस्य चतुर्विधस्यापि समक्षस्य सम्यग्वेदनत्वं न व्यवतिष्ठते, तस्य स्वविषयोपदर्शकत्वासिद्धेः । तत्सिद्धौ वा नीलादाविव क्षणक्षयादावपि तदुपदर्शकत्वप्रसक्तेः। ततो यदव्यवसायात्मकं ज्ञानं न तत्स्वविषयोपदर्शकम्, यथा गच्छत्तृण स्पर्शसंवेदनमनध्यवसायि प्रसिद्धम्, अव्यवसायात्मकं च सौगताभिमतं' दर्शनमिति व्यापकानुपलब्धिः सिद्धा । व्यवसायात्मकत्वस्य व्यापकस्याभावे तद्व्याप्यस्य' स्वविषयोदर्शकत्वस्याननुभवात् ।
१३. स्यादाकूतं ते-न व्यवसायात्मकत्वेन स्वविषयोपदर्शकत्वस्य व्याप्तिः सिद्धि मधिवसति, तस्य व्यवसायजनकवेन व्याप्तत्वात् । नीलधवलादी व्यवसायजननाद्दर्शनस्य तदुपदर्शकत्वव्यवस्थितेः। क्षणक्षयस्वर्गप्रापणशक्त्यादी व्यवसायाजनकत्वात्तदनुपदर्शकत्वव्यस्थानात् । गच्छत्तृणस्पर्शसंवेदनस्यापि तत एव स्वविषयोपदर्शकत्वाभावसिद्धेः मिथ्याज्ञानत्वव्यवहारात्, अन्यथानध्यसायित्वाघटनात् इति; तदेतदविचारितरमणीयं ताथागतस्य; व्यवसायो हि दर्शनजन्यः। स किं दर्शनविषयस्योपदर्शकोऽनुपदर्शको वा, इति विचार्यते-यधुपदर्शकः, तदा स एव तत्र प्रवर्तकः प्रापकश्च, संवादकत्वात्, सम्यक्संवेदनवत्, न तु तन्निमित्तं दर्शनम्, संनिकर्षादिवत् । अथानुपदर्शकः, कथं दर्शनं तज्जननात् स्वविषयोपदर्शकम्, अतिप्रसंगात्, संशय-विपर्यासकारणस्यापि स्वविषयोपदर्शकत्वापत्तेः। दर्शनविषयसामान्याध्यवसायित्वाद्विकल्पस्य10 तज्जनकं दर्शनं स्वविषयोपदर्शकमिति च न चेतसि स्थापनीयम्, दर्शनविषयसामान्यस्यान्यापोहलक्षणस्यावस्तुत्वात्, तद्विषयव्यवसायजनकस्य वस्तपदर्शकत्वविरोधात् । दृश्यसामान्ययोरेकत्वाध्यवसायाद्वस्तूपदर्शक एव व्यवसाय इत्यपि मिथ्या, तयोरेकत्वाध्यवसायासम्भवात् । तदेकत्वं हि दर्शनमध्यवस्यति तत्पृष्ठजो व्यवसायो वा ज्ञानान्तरं वा? न तावद्दर्शनम्, तस्य विकल्प्याविषयत्वात् । नापि तत्पृष्ठजो व्यवसायः, तस्य दृश्यागोचरत्वात् । तदुभयविषयं ज्ञाना
___ 1. स्वविषयं रूपं दर्शयत्' मु। 2. 'वेदक' मु । 3. 'संशयवत्' मु। 4. 'गच्छतः तृण-' मु। 5. 'सौगताभिमतदर्शन' मु अ ब द । 6. 'व्यवसायात्मकस्य' मु द । 7. 'तव्याप्यत्वस्य' मु। 8. 'अननुभवनात्' स । 9. 'संवेदनम्' अ ब द । 10. 'विकल्पतज्जनकं दर्शनं' म। 11. 'विकल्पा-' म अब ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org