________________
प्रमाणलक्षण-परीक्षा : ५ धान्यादात्मन एव स्वार्थग्रहणपरिणाममापन्नस्य ज्ञानव्यपदेशसिद्धेः, औष्ण्यपरिणाममापन्नस्याग्नेरौष्ण्यव्यपदेशवत् । तेन ज्ञानात्मा ज्ञानात्मना ज्ञेयं जानातीति व्यवहारस्य प्रतीतिसिद्धत्वात् । यथा च ज्ञानात्मैव प्रमाता स्यात्, अज्ञानात्मनः खादेः प्रमातृत्वायोगात् तथा ज्ञानात्मैव प्रमाणम्, [ तस्यैव ] स्वार्थप्रमिती ज्ञानात्मिकायां करणत्वात्, अज्ञानात्मनस्तत्र साधकतमत्वाघटनादिति नाज्ञानं प्रमाणमन्यत्रोपचारात् । ततो नाज्ञानेन इन्द्रियसंनिकर्ष-लिंग-शब्दादिना साधनस्य व्यभिचारः। नापि व्यतिरेकासिद्धिः, सम्यग्ज्ञानत्वस्य साध्यस्य निवृत्ती प्रमाणत्वस्य साधनस्य पटादौ विनिवत्तिनियमनिश्चयात् केवलव्यतिरेकिणोऽपि साधनस्य समर्थनात् । ततः सूक्तम्-'सम्यग्ज्ञानमेव प्रमाणम्, अज्ञानस्य प्रमाणत्वायोगान्मिथ्याज्ञानवत्' इति ।
$ ११. किं पुनः सम्यग्ज्ञानम्। समभिधीयते-स्वार्थव्यवसायात्मकं सम्यग्ज्ञानम्, सम्यग्ज्ञानत्वात् । यत्तु न स्वार्थव्यवसायात्मकं तन्न सम्यग्ज्ञानम्, यथा संशय-विपर्ययानध्यवसाया:| सम्यग्ज्ञानं च विवादापन्नम, तस्मात्स्वार्थव्यवसायात्मकम्, इति सुनिश्चितान्यथानुपपत्तिनियमनिश्चयलक्षणो हेतुः प्रसिद्ध एव सम्यगवबोधवादीनाम्', साध्यमिणि सद्भावात् ।
$ १२. स्वसंवेदन-इन्द्रिय-मनो-योगिप्रत्यक्षैः सम्यग्ज्ञानैरव्यवसायात्मकैय॑भिचारी हेतुः; इति स्वमनोरथमात्रं सौगतस्य; तेषां सम्यग्ज्ञानत्वविरोधात् । सम्यग्ज्ञानत्वं ह्यविसंवादकत्वेन व्याप्तम्, तदभावे तदसंभवात् । तदप्यर्थप्रापकत्वेन,अर्थाप्रापकस्याविसंवादित्वाभावात्19, निविषयज्ञानवत् । तदपि प्रवर्तकत्वेन व्याप्तम्, अप्रवर्तकस्यार्थाप्राकत्वात्11 तद्वत् । प्रवर्तकत्वमपि स्वविषयोपदर्शकत्वेन व्याप्तम्, स्वविषयमुपदर्शयतः प्रवर्तकव्यवहार
१. तुलना-'तन्न अज्ञानस्य प्रमाणता अन्यत्रोपचारात ।'-लघी०का० ३ । २. प्रमाणत्वान्यथानुपपत्तेरिति पूर्वोक्तस्य हेतोः। ३. सम्यग्ज्ञाने। ___1. 'घटनान्नाज्ञान' म्। 2. 'उपचारतः' मु । 3. 'घटादो' स । 4. “विनिवत्तिविनिश्चयात्' म अ। 5. 'अभिधीयते' म्। 6. 'विपर्यासानध्यसायाः' मु। 7. अवबोधादीनां' म्। 8. सम्यग्ज्ञानत्वस्य विरोधात् अ। 9. 'तदपि प्रवर्तकत्वेन व्याप्तं तदभावे तदसम्भवात्' इत्यतिरिक्तो पाठः मु अबद। असो स-प्रतौ नास्ति । स युक्तः प्रतिभाति । 10. 'अर्थप्रापकस्याविसंवादित्वात्' मु । 11. अर्थाप्रत्यायकत्वात्' मु। 12, 'विश्वविषयो'-म् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org