________________
४ : प्रमाण-परीक्षायां
रायक्षयोपशमभेदः स्वार्थप्रमितौ शक्तिर्योग्यतेति च स्याद्वादन्यायवेदिभिःरभिधीयते । प्रमातुरुपलब्धिलक्षणप्राप्ततापि नातोऽर्थान्तरभावमनुभवति, पुंसः संवेदनावरण वीर्यान्तराय लक्षणपापमलापगमविरहे क्वचिदुपलब्धिलक्षणप्राप्तताऽनुपपत्तेः'। नयनोन्मीलनादिकर्मणो दृश्यादृश्ययोः साधारणत्वात्, प्रद्योतादिकारण साकल्यवत् ।
3
$ १०. एतेन नयनोन्मीलनादिकर्म संनिकर्षसहकारि विषयगतं चोपलभ्यत्वसामान्यमिति प्रत्याख्यातम्; तत्संनिधाने सत्यपि क्वचित्कस्यचित्प्रमित्यनुत्पत्तेः 4 कालाकाशादिवत् । न हि तत्रोपलभ्यत्वसामान्यमसम्भाव्यम्, योगिनोऽप्यनुपलब्धिप्रसंगात् । मादृशापेक्षयोपलभ्यत्वसामान्यमन्यदेव योगीश्वरापेक्षादुपलभ्यतासामान्यादिति चेत् तत्किमन्यदन्यत्र योग्यताविशेषात्प्रतिपुरुषं भेदमास्तिघ्नुवानादिति । स एव प्रमातुः प्रमित्युपजनने साधकतमोऽनुमन्तव्यः संनिकर्षादी सत्यपि [ तदभावे ] क्वचित्संविदुपजननाभावविभावनात् । स च योग्यताविशेषः स्वार्थग्रहणशक्तिः आत्मनो भावकरणं ज्ञानमेव, फलरूपात् स्वार्थज्ञानात्कथञ्चिदभिन्नत्वात् सर्वथापि ततो भेदेऽनात्मस्वभावत्वापत्तेः " । न चैवमुपगन्तुं युक्तम्, आत्मन एवोभयनिमित्तवशात्तथापरिणामात् । आत्मा हि जानात्यनेनेति ज्ञानमिति करणसाधनात् भेदोपवर्णनम्, कथंचिदभिन्नकर्तृकस्य करणस्य प्रसिद्धेः, अग्निरौष्ण्येन दहतीन्धनमिति यथा । स्वातन्त्र्यविवक्षायां तु जानातीति ज्ञानमात्मैव, कर्तृसाधनत्वात् 10, आत्मज्ञानयोरभेदप्रा
7
१. ज्ञाननिरोधकं कर्म ज्ञानावरणम्, शक्तिनिरोधकं कर्म वीर्यान्तरायः, एतयोः क्षयोपशमभेद: योग्यताविशेषः । २. आत्मनः ३. परिच्छेद्यलक्षणे प्रमेये ।
'स्वातन्त्र्य साधकतम
'
४. तुलना - 'अत्र प्रमाणशब्दः कर्तृकरणभावसाधनः ' त्वादिविवक्षापेक्षया तद्भावाविरोधात् । तत्र क्षयोपशमविशेषवशात् ' स्वपरप्रमेयस्वरूपं प्रमिमीते यथावज्जानाति' इति प्रमाणमात्मा, स्वपरग्रहणपरिणतस्यापरतन्त्रस्यात्मन एव हि कर्तृसाधनप्रमाशब्देनाभिधानं स्वातन्त्र्येण विवक्षितत्वात्" साधकतमत्वादिविवक्षायां तु 'प्रमीयते येन तत्प्रमाणम्, प्रमितिमात्रं वा' प्रतिबन्धापाये प्रादुर्भूतविज्ञानपर्यायस्य प्राधान्येनाश्रयणात् । ' - प्रमेयक० प्रतिज्ञाश्लो० । 1. ' स्याद्वादवेदिभि ' मु । 2. 'अनुपलब्धेः ' मु । 3. 'करण' मु । 4. 'अनुपपत्तेः' मु । 5. 'अस्मादृशा' मुब । 6 फलरूपत्वात्' मु अ । 7 'भेदे नात्मस्वभावत्वोपपत्तेः' मु । 8. 'आत्मनो' मु । 9. 'अनेनेति करण
म। 10.
'साधनत्वात्तदात्म-' मु अ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org