________________
१२ : प्रमाण-परीक्षायां
सुगतस्य संवेदनोदयात् सकलार्थज्ञता युक्ता कल्पयितुं न पुनरितरजनस्य प्रतिनियतपदार्थादेव तद्वेदनोत्पत्तेरिति चेत्; न; सुगर्तावज्ञानस्यापि ' सकलपदार्थजन्यत्वासिद्धेः, समसमयवर्तिपदार्थजन्यत्वासंभवात् ।
$ २५. यदि पुनरनाद्यतीत पदार्थेभ्यो भविष्यदनन्तार्थेभ्य: सांप्रतिकार्थेभ्यश्च सकलेभ्यः सुगत संवेदनस्योत्पत्तिः अखिला विद्यातृष्णाविनाशादुपपद्यत एव अस्मदादिसंवेदना द्विशिष्टत्वात्तस्येति मतम्, तदा किमेकेन स्वभावेन कालत्रयवर्तिपदार्थैः सुगतविज्ञानमुत्पद्यते नानास्वभावेर्वा । यद्येकेन स्वभावेन एकेनार्थेन सुगतज्ञानसुपजन्यते तेनैव सकलपदार्थेः तदा सकलपदार्थानामेकरूपतापत्तिः । सुगतविज्ञानस्य वा तदेकपदार्थजन्यत्वसिद्धिरिति नेतरजनसंवेदनात्तस्य विशेषः सिद्धयेत् । अथान्येन स्वभावेनैकोऽर्थः सुगतज्ञानमुपजनयति पदार्थान्तराणि तु स्वभावान्तरैस्तदुपजनयन्ति इति मतिर्भवताम्, तर्हि सुगतज्ञानमनन्तस्वभावमेकमायातम् । तद्वत् सकलं वस्तु कथमनन्तात्मकतां न स्वीकुर्यात्, इति चिन्तनोयम् । एकस्यानेकस्वभावत्वविरोधान्नैकमनेकात्मकमिति चेत्, कथमिदानीं सुगतविज्ञानमनेक पदार्थजन्यं नानारूपतां बिभति' ।
$ २६. यदि पुनरतज्जन्यरूपव्यावृत्या तज्जन्यरूपपरिकल्पनान्न तत्त्वतः सुगतसंवेदनमनेकरूपताक्रान्तमित्याकूतम्, तदा न परमार्थतः शुद्धोदन ' तनय विज्ञानमखिलपदार्थजन्यम् इति कुतः पृथग्जनसंवेदनादस्य विशेषः समवतिष्ठते । ततः सुगतविज्ञानदृश्यतामितरजन विज्ञानविषयतां चैकस्य नीलादिस्वलक्षणस्यानेकाकारामपि स्वयमुररीकुर्वता नीलक्षणकादिरूपतापि दृश्यादृश्यत्वलक्षणा स्वीकर्त्तव्या, तथा च नीलादी दर्शनमन्यद्वयवसायात्मकं संस्कारस्मरणकारणं तद्विपरीतदर्शनादवबोद्धव्यम्, इति न प्रत्यक्ष प्रसिद्धं निर्व्यवसायात्मकत्वमध्यक्षज्ञानस्य । नाप्यनुमानप्रसिद्धम्, गोदर्शनसमयेऽश्वकल्पनावत् गोदर्शनस्यापि व्यवसायात्मकत्वोपपत्तेः पुनर्विकल्पयतः तदनुस्मरणस्यान्यथानुपपत्तेः । तथा हि-यन्नि र्व्यवसायात्मकं ज्ञानं तनोत्तरकालमनुस्मरणजननसमर्थम्, यथा पराभिमतं स्वर्गप्रापणशक्त्यादिदर्शनम्, तथा चाश्वविकल्पकाले गोदर्शनमिति तदनुस्मरणजननसमर्थं न स्यात् भवति च पुनर्विकल्पयतस्तदनुस्मरणम्, तस्माद्वयवसायात्मकमिति निश्चयः ।
1. 'सुगतज्ञानस्य' मु । 2. 'उत्पाद्येत' अ ब । 4. 'विभति' मु । 5. 'सुद्धोदनि' मु ।
Jain Education International
For Private & Personal Use Only
3. 'विज्ञानमेक' मु ।
www.jainelibrary.org