________________
प्रमाणलक्षण-परीक्षा : १३ ६२७. तदेवं व्यवसायात्मकत्वे साध्ये सम्यग्ज्ञानत्वं साधनं न व्यभिचरति, कस्यचिदपि सम्यग्ज्ञानस्याव्यवसायात्मकस्य प्रमाणबाधितत्वादिति स्थितम् ।
२८. ये त्वाहुः-स्वार्थव्यवसायात्मकत्वे साध्ये सम्यग्ज्ञानत्वस्य' हेतोर्न प्रयोजकत्वम्, सर्वस्य सम्यग्ज्ञानस्यार्थव्यवसायात्मकत्वमन्तरेणैव सम्यग्ज्ञानत्वसिद्धेः । तथा हि-विवादाध्यासितं सम्यग्ज्ञानं नार्थव्यवसायात्मकम्, ज्ञानत्वात् स्वव्यवसायात्मकत्वाद्वा। यद् ज्ञानम् स्वव्यवसायात्मकं वा तन्नार्थव्यवसायात्मकम्, यथा स्वप्नादिज्ञानम्, तथा च विवादापन्नं सम्यग्ज्ञान जिनपतिमतानुसारिभिरभ्यनुज्ञातम्, तस्मान्नार्थव्यवसायात्मकम्, इति ।
$ २९. तेऽपि न प्रातीतिकवादिनः, जागृद्दशाभाविनः समीचीनविज्ञानस्यार्थव्यवसायात्मकत्वप्रतीतेः । तस्यार्थाव्यवसायात्मकत्वे ततोऽर्थे प्रवृत्त्यभावप्रसंगात् । प्रतीयते च सम्यग्विज्ञानादर्थे प्रवृत्तिरविसंवादिनी, तस्मादर्थव्यवसायात्मकं तत्, अर्थे प्रवृत्त्यन्यथानुपपत्तेः । मिथ्याज्ञानादप्यर्थे प्रवृत्तिदर्शनादनेकान्त इति चेत्, न; तस्याः प्रवृत्त्याभासत्वात्, व्यवसितार्थप्राप्तिनिमित्तत्वाभावात् । व्यवसितमर्थं प्रापयितुं समर्था हि सम्यकप्रवत्तिः, सा च मिथ्याज्ञानान्तोपपद्यत इति न व्यभिचारः ।
३०. यच्चार्थव्यवसायात्मकत्वनिराकरणप्रवणमनुमानं तत्स्वार्थ व्यवस्यति न वा। प्रथमविकल्पे तेनैवानकान्तिकं साधनमापद्येत, तस्य ज्ञानत्वे स्वव्यवसायात्मकत्वेऽपि स्वसाध्यार्थव्यवसायात्मकत्वसिद्धः। द्वितीयविकल्पे तु' नातोऽनुमानादिष्टसिद्धिः स्वसाध्यार्थाव्यवसायात्मकत्वात्, अनुमानाभासवत् । ततः कि बहना, सर्वस्य किञ्चिदिष्ट साध्यतः स्वयमनिष्टं वा दूषयतः कुतश्चित्प्रमाणात् तस्यार्थव्यवसायात्मकत्वाभ्यनुज्ञानमवश्यम्भावि, तस्यार्थाव्यवसायात्मकत्वे स्वेष्टानिष्टसाधनदूषणानुपपत्तेः । परप्रसिद्धयार्थव्यवसायिनः प्रमाणस्याभ्यनुज्ञानाददोष इति चेत्, तर्हि परं प्रतिपाद्यसे वा न वा। यदि न प्रतिपाद्यसे, कथं परप्रसिद्धया क्वचिदभ्यनुज्ञानम् । तं च न प्रतिपाद्यसे' तत्प्रसिद्धया च किञ्चिदभ्यनुजानासीति कथमनुन्मत्तः। अथ परं प्रतिपाद्यसे, तर्हि यतः प्रमाणात्तत्प्रति
1. 'सम्यग्ज्ञानं' मु । 2. 'सम्यग्ज्ञानस्य' मु । 3. 'अर्थव्यवसायमन्तरेणैव' मु । 4. 'स्वव्यवसायात्मकत्वात्' । 5. 'विपदापन्नं ज्ञानं' म्। 6. 'सम्यग्ज्ञानादर्थे' मु । 7. 'ऽपि' म् । 8. 'इष्टप्रसिद्धिः' स । 9. 'तं न प्रतिपाद्यसे' मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org