Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
१४ : प्रमाण-परीक्षायां पत्तिः तत्स्वकीयार्थव्यवसायात्मकं सिद्धम्, तस्यार्थाव्यवसायात्मकत्वे तेन परप्रतिपत्तेरयोगात् । यदि पुनः पराभ्युपगमान्तरात्परप्रतिपत्तिरिति मतम्, तदाप्यनिवृत्तः पर्यनुयोगः, तस्यापि पराभ्युपगमान्तरस्य प्रतिपत्त्यप्रतिपत्तिपूर्वकत्वे पूर्वोक्तदूषणानतिक्रमात् ।
६३१. स्यान्मतम्-न बहिराः परमार्थतः सन्ति, तत्प्रत्ययानां निरालंबनत्वात्, स्वप्नप्रत्ययवत्, सन्तानान्तरविज्ञानानामप्यसत्त्वात् । तत्र स्वरूपमात्रव्यवसायात्मकमेव विज्ञानमिति तदप्यसारम्; तथा हि-सर्वप्रत्ययानां निरालंबनत्वं न तावत्प्रत्यक्षतः सिद्धयति, तस्य तद्विषयत्वाभावात् । 'विवादापन्नाः प्रत्यया निरालम्बना एव, प्रत्ययत्वात्, स्वप्नेन्द्रजालादिप्रत्ययश्वदित्यनुमानान्निरालंबनत्वसिद्धिः' इत्यपि मिथ्या; स्वसन्तानप्रत्ययेन व्यभिचारात् । तस्यापि सन्तानान्तरप्रत्ययवत्पक्षीकरणे किमिदमनुमानज्ञानं स्वसाध्यार्थालंबनं निरालंबनं वा । प्रथम पक्षे तेनैवानैकान्तिकं प्रत्ययत्वम् । द्वितीयकल्पनायां नातो निरालंबनत्वसिद्धिः ।
३२. परब्रह्मस्वरूपसिद्धि रेव सकलभेदप्रत्ययानां निरालंबनत्वसिद्धिः; इत्यपि न व्यवतिष्ठते; परब्रह्मण एवाप्रसिद्धेः । तद्धि स्वतो वा सिद्धयेत् परतो वा, न तावत्स्वत एव, विप्रतिपत्त्यभावप्रसंगात्। परतश्चेदनुमानादागमाद्वा। यद्यनुमानात्, किमत्रानुमानमित्यभिधीयताम् । 'विवादापन्नोऽर्थः प्रतिभासान्तःप्रविष्ट एव, प्रतिभासमानत्वात् । यो यः प्रतिभासमानः स स प्रतिभासन्तःप्रविष्ट एव दृष्टः, यथा प्रतिभास्यात्मा, प्रतिभासमानश्च सकलोऽर्थश्चेतनाचेतनात्मको विवादापन्नः, तस्मात्प्रतिभासान्तःप्रविष्ट एव' इत्यनुमानं न सम्यक् धमिहेतुदृष्टान्तानां प्रतिभासान्तःप्रविष्टत्वे साध्यान्तःपातित्वेनानुमानोत्थानायोगात्। प्रतिभासान्तःप्रविष्टत्वाभावे तैरेव' हेतोय॑भिचारात् ।
$३३. यदि पुनरानाद्यविद्यावासनाबलामि-हेतु-दृष्टान्ताः प्रतिभासबहिर्भूता इव निश्चीयन्ते, प्रतिपाद्य-प्रतिपादक-सभ्य-सभापतिजनवत् । ततोऽनुमानमपि संभवत्येव । सकलानाद्यविद्याविलासविलये तु प्रतिभासान्तःप्रविष्टमखिलं प्रतिभासमेवेति विप्रतिपत्त्यभावात् । प्रतिपाद्यप्रतिपादकभावाभावात् साध्यसाधनभावानुपपत्तेनं किंचिदनुमानोपन्यासफलम् ।
1. 'तस्याव्यसायात्मकत्वे' मु। 2. 'तद्विषयत्वात्' म। 3. 'जालादिवदिति' मु। 4. 'अनैकान्तिकत्वं' मु । 5. 'विवादपदापन्नोऽर्थः' अ ब स । 6. 'विवादपदापन्नः' अस। 7. 'तैरेवेति' मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212