Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 149
________________ प्रमाणलक्षण-परीक्षा : ७ न्तरं तु निर्विकल्पकं विकल्पात्मकं वा । न तावन्निर्विकल्पकम्, तस्य दश्य-विकल्प्यद्वयविषयत्वविरोधात् । नापि विकल्पात्मकम्, तत एव । न चे तदुभयाविषयं संवेदनं तदुभयैकत्वमध्यवसातुं समर्थम् । तथाहि - यद्यन्न विषयीकुरुते न तत्तदेकत्वमध्यवस्यति, यथा रससंवेदनं स्पर्शरूपोभयम्, न विषयोकुरुते च दश्यविकल्प्योभयं किंचित्संवेदनम्, इति न कुतश्चिद् दृश्यविकल्प्योरेकत्वाध्यवसायः सिद्धयेत् । ततो न व्यवसायो वस्तूपदर्शकः स्यात् । नापि तदुपजननादर्शनं स्वविषयवस्तूपदर्शकम्, योगिप्रत्यक्षस्य विधूतकल्पनाजालस्य सर्वदा वस्तु विकल्पाजनकत्वात् तदुपदर्शकत्वविरोधात् । स्वसंवदेनमपि न तस्य स्वरूपोपदर्शकम्, तद्विकल्पानुत्पादकत्वात्, इति कुतः स्वरूपस्य स्वतो गतिरवतिष्ठेत । १४. किंच दर्शनपृष्ठभाविनो विकल्पस्य स्वसंवेदनबलासिद्धी तत्स्वसंवेदनं कुतः प्रमाणं स्यात् । तद्यदि स्वरूपोपदर्शनादेव प्रमाणमास्थीयेत, तदा स्वर्गप्रापणशक्त्यादावपि प्रमाणतामास्कन्देत् । तत्स्वसंविदाकार एव प्रमाणम्, तद्वयवसायजनात्, न पुनरन्य त्रेति परिकल्पनायां तद्वयवसायस्वसंवेदनस्यापि व्यवसायान्तरोपजननात् स्वरूपोपदर्शनेन भवितव्यमित्यनवस्थानात् नाद्यव्यवसायस्वसंवेदनस्य प्रामाण्यम् । तदप्रामाण्ये च न तत एव व्यवसायसिद्धिः । तदसिद्धौ च न तज्जननादर्शनस्य स्वविषयोपदर्शकत्वम् । तदभावे च न तस्य प्रवर्तकत्वम् । अप्रवत्तकस्य नार्थप्राप्तिनिमित्तत्वम् । तदसंभवे च नाविसंवादकत्वम् । तद्विरहे च न सम्यग्ज्ञानत्वं स्वसंवेदनेन्द्रियमनोयोगिज्ञानानामिति न तैर्व्यभिचारः साधनस्य सम्भवति । $ १५. स्यान्मतम्-अर्थसामर्थ्यादुत्पत्तिः, अर्थसारूप्यं च दर्शनस्य स्वविषयोपदर्शकत्वम्, तच्च सकलसमक्षवेदनानामव्यवसायत्मकत्वेऽपि संभवत्प्रवर्तकत्वमर्थप्रापकत्वमविसंवादित्वं सम्यग्ज्ञान लक्षणमिति तैः समीचीन निर्व्यभिचार एव हेतोरिति; तदपि दुर्घटमेव; क्षणक्षयादावपि तदुपदर्शकत्व प्रसंगात् । तत्राक्षणिकत्वादिसमारोपानुप्रवेशादयोगिनः प्रति 1. तद्वयाविषयं' मु। 2. 'तथाहि' शब्दस्याने 'यद्यन्न' शब्दाच्च पूर्व किंचित्संवेदनं दृश्यविकल्प्योरेकत्वं नाध्यवस्यति, तदुभयाविषयत्वात्' इत्यतिरिक्तः पाठो स प्रतावुपलभ्यते । 3. 'वस्तुनि विकल्प' अ स व । 4. 'विरोधाच्च' अव । 5. 'तद्विकल्पाननुत्पादक' अ। 6. स प्रतो 'च' नास्ति । 7. 'संवेदनं' स । 8. 'संवेदनानां' स। 9. 'सम्यग्ज्ञानत्व' अब द । 10. 'समीचीनज्ञानैः' बस व। 11. 'तदुपदेशकत्व' मु । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212