Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan

View full book text
Previous | Next

Page 320
________________ 285 परिशिष्टम्-६ परिशिष्टम्-६ अभयदेवीयावृत्त्या उद्धृत्ता दृष्टान्ताः ___[अत्र यशोभद्रीयवृत्यां ये दृष्टान्ताः न व्याकृताः तेऽत्र अभयदेवीयटीकातः स्पष्टतरा उद्धृताः सन्ति ] (1) वन्दनायां रूपकदृष्टान्तः छेकश्चासौ शुद्धः कूटकश्च कथञ्चिदशुद्धश्छेककूटकः स चासौ रूपकश्च द्रम्मः च्छेककूटकरूपकः स एव तस्य वा ज्ञातं निदर्शनं छेककूटकरूपकज्ञातम् तद् भणन्ति वदन्ति / समयविदः सिद्धान्तवेदिनो भद्रबाहुस्वामिप्रभृतयः / तन्त्रेष्वावश्यकनियुक्त्यादिशास्त्रेषु / तथाहि - "रूप्पं टंकं विसमाहयक्खरं न विय रूवओ छेओ / दोहं पि समाओगे रूवो च्छेयत्तणमुवेति // 1 // " चित्रभेदं बहुप्रकारं चतुर्विकल्पमित्यर्थः / इह स्थाने यदिति शेषो दृश्यः / तदपि च्छेदकूटकरूपकज्ञातमपि, न केवलं द्रव्यलिङ्गग्रहणानन्त्येनाशुद्धत्वमस्या भावनीयमित्यपिशब्दार्थः / हुशब्द एवकारार्थो भिन्नक्रमश्चेति इहेति वन्दनायां परिभावनीयमेव पर्यालोचयितव्यमेव / इति शब्दो वाक्यार्थसमाप्तौ / इति गाथार्थः // 3/34 // १-अस्या व्याख्या-अत्र तावच्चतुर्भगी। रूप्रमशुद्धं टंकं विषमाहताक्षरमित्येकः, रूप्रमशुद्धं टंकं समाहताक्षरमिति द्वितीयः, रूपं शुद्धं टंकं विषमाहताक्षरमिति तृतीयः, रूपं शुद्धं टंकं समाहताक्षरमिति चतुर्थः / अत्र च रूपकल्पं भावलिंगं, टंककल्पं द्रव्यलिंगं / इह च प्रथमभङ्गतुल्याश्चरकादयः, अशुद्धोभयलिङ्गत्वात् / द्वितीयभङ्गतुल्याः पार्श्वस्थादयः, अशुद्धभावलिङ्गत्वात् / तृतीयभङ्गतुल्याः प्रत्येकबुद्धाः अन्तर्मुहूर्तमानं कालमगृहीतद्रव्यलिङ्गाः / चतुर्थभङ्गतुल्याः साधवः शीलयुक्ताः गच्छतो निर्गताश्च जिनकल्पिकादयः / यथा रूपको भङ्गत्रयान्तर्गतः अच्छेक इत्यविकलं, तदर्थक्रियार्थिना नोपादीयते, चतुर्थभङ्गनिरूपित एवोपादीयते / एवं भङ्गत्रयनिदर्शिताः पुरुषा अपि परलोकार्थिनौघतो न नमस्करणीयाः, चरमभङ्गकनिदर्शिता एव नमस्करणीया इति भावना / अक्षराणि त्वेवं नीयन्ते-रूपं शुद्धाशुद्धभेदं, टंकं विषमाहताक्षरं, नैव रूपकश्छेकोऽसांव्यवहारिक इत्यर्थः / द्वयोरपि शुद्धरूपसमाहताक्षरटंकयोः समायोगे सति रूपकश्छेकत्वमुपैतीति गाथार्थः / /

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355