Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan
View full book text
________________ 295 परिशिष्टम्-६ (12) ऋजुजडादित्वे कारणम् नटादिज्ञातान्नर्तकप्रभृत्युदाहरणात्-किल केचित् प्रथमतीर्थसाधवो विचारभूमेर्गुरुसमीपमागताः पृष्टाश्च गुरुभिः यथा-"भोः किमियच्चिरादागता यूयं ?" | त ऋजुत्वादूचुः, यथा-"नटं नृत्यन्तं वीक्ष्यमाणाः स्थिताः" ततो गुरुस्तानभ्यशिषत्, यथा-"मा पुनरेवं कार्युरिति" प्रतिपन्नवन्तश्च तत्ते / ततोऽन्यदा ते तथैव पृष्टा ऊचुः, यथा-"नटी नृत्यन्तीं वीक्षमाणाः स्थिताः / " गुरुणा प्रेरिताश्च ते जडत्वादभिदधुः-"भवद्भिर्नटस्तदा निषिद्धः, न नटीति" / नटे हि निषिद्धे रागहेतुत्वान्नटी नितरां निषिद्धैवेति प्रतिपत्तुं न शकितं तैरिति / आदिशब्दाद्धस्त्यादिग्रहः / भवन्ति स्युः / विज्ञेया ज्ञातव्याः / वक्रजडाः शठमुग्धाः पुनः / चरमा अन्तिमाः / तत एव ज्ञातात्-किल केचिच्चरमजिनसाधवस्तथैव पृष्टा ऊचुः, यथा-"नटं वीक्ष्यमाणाः स्थिताः" / ततो गुरुणा निषिद्धाः / पुनरन्यदा पृष्टा वक्ततयोत्तरान्तराणि ददुः / निर्बन्धे च नटीमुक्तवन्तः उपालब्धाः सन्तो जडत्वादूचुः, यथा-"नट एव न द्रष्टव्य इत्यस्माभिर्जातमासीदिति / " ऋजुप्रज्ञा आर्जवोपेताः प्रज्ञावन्तश्च / तत एव ज्ञातात्-एते हि किल तथैव पृष्टा ऋजुत्वादूचुः-"नटं वीक्ष्यमाणाः स्थिताः" / ततो गुरुणा तथैवोक्ताः / पुनरन्यदा नटीं दृष्ट्वा प्राज्ञत्वाद्विकल्पितवन्तः, नटवन्नट्यपि न वीक्षितव्या रागहेतुत्वादिति / मध्यमा द्वाविंशति-जिनसाधवः / भणिता उक्ताः / इति गाथार्थः // 17/43 / /

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355