Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan
View full book text
________________
निर्वाण
कलिका.
॥१०॥
Jain Education I
पुष्पिका जिनेशाय दद्यात्। तद्यथा
ॐ स्थिरतात्मने अवनिमूर्तये नमः ॥ १ ॥ ॐ नित्यात्मने व्योममूर्तये नमः || २ || ॐ तेजोमयात्मने दहनमूर्तये नमः ॥ ३ ॥ ॐ निःसङ्गात्मने पवनमूर्तये नमः ॥ ४ ॥ ॐ गाम्भीर्यात्मने आयमूर्तये नमः || ५ || ॐ धर्मात्मने आत्ममूर्तये नमः ॥ ६ ॥ ॐ ज्ञानात्मने तपनमूर्तये नमः ॥७॥ ॐ सौम्यात्मने सोममूर्तये नमः । इति जगद्वयापकमर्हन्मूर्त्यष्टकं सम्पूज्य चन्दनेन तिलकं कृत्वा स्वशिरसि मूलमन्त्रेण पुष्पं विनिक्षिपेत् ।
विसर्जनार्थमयं दत्वा संहारमुद्रया स्वस्थाने गच्छ गच्छेत्यनेन मूलमन्त्रेण पूजां द्वादशान्तमानीय शिरस्याशेष्य पूरकेण हत्कमले संयोज्य सापेक्षं क्षमस्वेति विसर्जयेत् । पर्वसु च विशेषपूजां कुर्यात् । ततः - देवा देवार्चनार्थं ये पुराहूताश्चतुर्विधाः । ते विधायार्हतः पूजां यान्तु सर्वे यथागताः ॥ १ ॥
इति गन्धं पुष्पं धूपं च दर्शयित्वा (दच्चा) रेचकेन संहारमुद्रया विसर्ज्यं । पत्रिका मीशान्यां प्रक्षिप्यार्घपात्राम्भसा पटं प्रक्षाल्योपरि पुष्पमेकं दत्त्वा समुत्थाय गृहमध्ये वृत्तमण्डलकं विधाय गन्धपुष्पधूपनैवेद्यादिकं दत्त्वा वस्तोपतये ब्रह्मणे नमः । इति वास्तु सम्पूज्य मध्यस्तम्भात्रः ॐस्कन्दाय गृहाधिपतये नमः | शयनीय शिरसि ॐ कामाच कुसुमायुधाय नमः । गृहप्रधानपट्टे ॐ ह्रीं भवनदेवतायै नमः । गृहप्रधानद्वारे ॐमहायक्षराजाय नमः । इति गृहदेवतागणं पूजयेत् ।
For Private & Personal Use Only
नित्यकर्मविधि.
॥१०॥
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104