Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan
View full book text
________________
॥८१॥
Jain Education Internal
तथा महाकालीं देवीं तमालवण पुरुषवाहनां चतुर्भुजां अक्षमूत्रवज्रान्वितदक्षिण करामभयघण्टालङ्कृतवामभुजां चैति ॥ ८ ॥ तथा गौरीं देवीं कनक गौरीं गोधावाहनां चतुर्भुजां वरदमुसलयु तदक्षिण कर मक्षमाला कुवलयालङ्कृतवामहस्तां चेति ॥ ६ ॥ तथा गान्धारीं देवीं नीलवणां कमलासनां चतुर्भुजां वरदमुसलयुतदक्षिणकरां अभयकुलिशयुतवामहस्तां चेति ||१०| तथा सर्वास्त्रमहाज्वाला धवलवर्णां वराहवाहनां असंख्यप्रहरणयुत हस्तां चेति ॥११॥ तथा मानव श्याम कमलासनां चतुर्भुजां वरदपासालङ्कृतदक्षिणकरां अक्षसूत्र विटपालङ्कृतवामहस्तां चेति ॥ १२ ॥ तथा वै श्यामवर्णा अजगरवाहनां चतुर्भुजां खड्गोरगालङकृत दक्षिणकरां खेटकादियुतवामकरां चेति ॥ १३ ॥ तथा अछुप्तां तडिद्वर्णा तुरगवाहनां चतुर्भुज खड्गवाणयुतदक्षिणकरां खेटक्का हियुक्तवामकरां चेति ॥ १४ ॥ तथा मानव हंसवाहनां चतुर्भुजां वरदवचालङ्कृतदक्षिण करो अक्षवलयाशनियुक्तवामकरां चेति ||१५|| तथा महामानस वर्णा सिंहवाहनां चतुर्भुजां वरदासियुक्त दक्षिणकरां कुण्डिका फलकयुतवामहस्तां चेति ॥ १६ ॥ इति विद्यादेवीषोडशकम् ॥ || १४ || अथ लोकपालाः ॥
॥
तत्र शक्रं पीतवर्ण ऐगवतवाहनं वज्रपाणि चेति ॥ १ ॥ तथा अग्नि अग्निवर्ण मेषवाहनं सप्तशिखं शक्तिपाणि चेति ||२|| तथा यमराजं कृष्णवर्ण महिषवाहनं दण्डपाणि चेति || ३ || तथा नैर्ऋति हरितवर्ण शववाहनं खडगपाणि चेति ॥४॥ तथा वरुणं धवलवणं मकरवाहनं पाशपाणि चेति || ५|| तथा वायु सितवर्ण मृग वाहनं वज्रा (ध्वजा) लङकृत
For Private & Personal Use Only
॥८१॥
www.jainelibrary.org

Page Navigation
1 ... 97 98 99 100 101 102 103 104