Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan
View full book text
________________
निर्वाणकलिका.
अहंदादीनां वर्णादिक्रमः
11७४॥
॥१२॥ अथार्हदादीनां वर्णादिक्रमविधिः ॥ तत्राद्यं कनकावदातवृषलाञ्छनमुत्तराषाढाजातं धनराशि चेति । तथा तत्तीर्थोत्पन्नगोमुखयक्षं हेमवर्णगजवाहनं चतुभुजं वरदाक्षसूत्रयुतदक्षिणपाणिं मातुलिङ्गपाशान्वितवामपाणिं चेति । तथा तस्मिन्नेव तीर्थे समुत्पन्नामप्रतिचक्राभिधानां यक्षिणी हेमवां गरुडवाहनामष्टभुजां वरदवाणचकपाशयुक्तनक्षिणकरां धनुर्वेज्रचक्राङ्कुशवामहस्तां चेति ॥१॥
द्वितीयमजितस्वामिनं हेमाभं गजलाञ्छनं रोहिणीजातं वृषराशि चेति । तथा तत्तीर्थोत्पन्नं महायक्षाभिधानं यक्षेश्वरं चतुर्मखं श्यामवर्ण मातङ्गवाहनमष्टपाणि वरदमद्गराक्षसूत्रपाशान्वितदक्षिणपाणिं बीजपूरकामपाकुशशक्ति. युक्तवामपाणिपल्लवं चेति । तथा तस्मिन्नेव तीर्थे समुत्पन्नामजिताभिधानं यक्षिणीं गौरवर्णा लोहासनाधिरूढां चतुर्भजा वग्दपाशाधिष्ठितदक्षिणकगं वीजपूरकाङ्कुशयुक्तवामकरां चेति ॥ २ ॥
तथा तृतीयं सम्भवनाथं हेमाभं अश्वलाञ्छनं मृगशिरजातं मिथुनराशिं चेति । तस्मिस्तीर्थे समुत्पन्नं त्रिमुखयक्षेश्वरं त्रिमखं त्रिनेत्रं श्यामवर्ण मयूरवाहनं षट्भुज नकुलगदाभययुक्तदक्षिणपाणिं मातुलिङ्गनागाक्षसूत्रान्वितवामहस्तं चेति । तस्मिन्नेव तीर्थे समत्पन्ना दुरितारिदेवी गौरवर्णा मेषवाहनां चतुर्भजां वरदाक्षसूत्रयुक्तदक्षिणकरां फलाभयान्धितवामकरां चेति ॥३॥
Jain Education anal
II
For Private & Personal Use Only
VIw.jainelibrary.org

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104