Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan

View full book text
Previous | Next

Page 91
________________ ॥७३॥ देवोपकरणं पादेन स्पृष्ठा शतपश्चकं जपेत् । सन्ध्यालोपे नीरुजः सोपवासं शतं जपेत् । सरुजः शतं जपेदेव । एकाहं देवस्थानचैने त्रिरात्रमुपोषितः प्रत्यहं त्रिशतं जपेत् । निर्माल्य भक्षणे त्वकामानमस्कारायुतं (दशसहस्र) जपेत् । ततो विशेषपूजया तपस्विदानेन शुद्धयति । कामतो लक्षं नमस्कारस्यावत्योपवासपञ्चकं कुर्यात् । निर्माल्यभेदाः कथ्यन्ते ।। देवस्वं देवद्रव्यं नैवेद्यम् निवेदितं निर्माल्यं वेति । देवसम्बन्धिग्रामादि देवस्वं । अलंकारादि देवद्रव्यम् । देवार्थमुपकल्पितं नैवेद्यम् । तदेवोत्सृष्टं निवेदितं । बहिनिक्षिप्तं निर्माल्यम् । पञ्चविधमपि निर्माल्यं न जि नावलङ्घयेत् न च दद्यान्न विक्रीणीत । दत्वा क्रव्यादो भवति भुक्त्वा मातङ्गो लङ्घने सिद्धिहानिः आघ्राणे वृक्षः स्पर्शने स्त्रीत्वं विक्रये शवरः । पूजायां दीपालोकनधूपान्नादिगन्धे न दोषः । नदीप्रवाहनिर्माल्येऽपि च । सूतकशावाशौचयोः परकीययोने भोक्तव्यम् । भुक्त्वा वा अकामतः समुपोष्य मन्त्रसहस्र जपेत् । कामतस्तूपवासनयं कृत्वा मूलमन्त्रं सहस्रनयमावतयेत्। आत्मसम्बन्धिनोः सूतकशावाशौचयोः सूतकिजनसंस्पर्श विधाय प्रथपाकेन भोक्तव्यमन्यथा नित्यहानिर्भवति । अथ सूतके शावाशौचे च सुधर्मस्थेन क्रियानुष्ठानपरेण ज्ञानवता वृत्तवता च न नित्यक्षतिः कार्या । यदि च नित्यानुष्ठानं न भवति प्रमादात् सूतकिसंसृष्टासाधारणपाकभोजनं वा तदा स उपोष्य सहस्र जपेत् । कामतस्त्रिगुणं तदेव । आह्निकदेवतार्चनादिलोपे मूलमन्त्रस्यायुतं जपेत् । सम्पोष्य शतं वा जपेत् ॥ इति प्रायश्चित्तविधिः।। ||७३॥ Jain Education Intern For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104