Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan

View full book text
Previous | Next

Page 41
________________ ॥६॥ अथ प्रतिष्ठाविधिः ॥ तत्र पादप्रतिष्ठाविधिः ॥ तत्र स्थाप्यस्य जिनविम्बादेर्भद्रपीठादौ विधिना न्यसनं प्रतिष्ठा । तस्याश्च स्थापकत्रयं शिल्पी १ इन्द्रः २ आचार्य ३ श्चेति । ॥२३॥ तत्राद्यः सर्वाङ्गावयवरमणीयः क्षान्तिमार्दवार्जवसत्यशौचसम्पन्नः मद्यमांसादिभोगरहितः कृतज्ञो विनीतः शिल्पी सिद्धान्तवान् विचक्षणः धृतिमान् विमलात्मा शिल्पिना प्रधानो जितारिषड्वर्गः कृतकर्मा निराकुल इति । इन्द्रोऽपि विशिष्टजातिकुलान्वितो वा कान्तशरीरः कृतज्ञो रूपलावण्यादिगुणाधारः सकलजननयनानन्दकारी सर्वलक्षणोपेतो देवतागुरुभक्तः सम्यक् रत्नालङ्कृतः व्यसनासङ्गपराङ्मुखः शीलवान पञ्चाणुव्रतादिगुणयुतो गम्भीर सितद्कूलपरिधानः कृतचन्दनाङ्गरागो मालतीरचितशेखर कनककुण्डलादिभूषितशरीरस्तारहारविराजितवक्षस्थलः स्थपतिगुणान्वितश्वेति २। मूरिश्चार्यदेशसमुत्पन्नः क्षीणप्रायकर्ममलो ब्रह्मचर्यादिगुणगणालकृतः पञ्चविधाचारयुतो राजादिनामद्रोहकारी श्रताध्ययनसम्पन्नः तत्त्वज्ञो भूमिगृहवास्तुलक्षणानां ज्ञाता दीक्षाकर्मणि प्रवीणो निपुणः सूत्रपातादिविज्ञाने स्रष्टा सर्वतोमद्रादिमण्डलानामसमः प्रभावे आलस्यवर्जितः प्रियंवदो दीनानाथवत्सलः सरलस्वभावो वा सर्वगुणान्वितश्चेति । सच षष्ठाष्टमादितपोविशेष विधाय कारापकानुकूले लग्ने हस्तादारभ्य नवहस्तान्तानां प्रतिमानामाद्यासु तिसृषु अष्टनवदशहस्तं इतरासु चतुर्हस्तादिप्रतिमासु हस्तद्वयवृद्धथा, यद्वा एकहस्तादिक्रमेणैव द्वादशद्विहस्तवृद्धया TI | ॥२३॥ Jan Education D onal For Private & Personal use only. INiww.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104