Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan

View full book text
Previous | Next

Page 32
________________ निर्वाणकलिका. दीक्षाविधि. ॥१४॥ कृष्णं शुष्कशमीपत्रादिना नीतं तद्वर्णकार्थ रजः कार्यम् । विशेषसिद्धिकामो मुक्ताविद्रुमादिना एतदेव कुर्यात् एतन्मण्डलं निष्पाद्य सपरिकर भगवन्तं सम्पूज्य द्वारे मण्डलं विधाय प्रणवेनासनं दत्वा शिष्यमूलकायमुदङ्मुखं कृताञ्जलिं सन्निवेश्य स्वयं प्राग्नदनो मुलमन्त्राभिमन्त्रितेन शान्तिकुम्भाम्भसा स्नापयेत् । पुष्पाक्षतःदिना मुद्रास्त्रेण सन्ताडय दुर्वाप्रवालेन नामेरूमधश्च त्रिधा समुल्लिख्य अस्त्रप्रोक्षितकवचावगुण्ठितहृदयसंस्कृतवाससा सर्वाङ्गमाच्छाद्य पूजागृहं प्रवेश्य पुष्पाञ्जलिक्षेपं कारयित्वा भगवन्तं दर्शयेत् । तदनु भगवतो दक्षिणहिग्भागमण्डलके प्रणवासमं दत्वा तत्रोपविश्य धारणादिभिर्देहशुद्धिं सकलीकरणं च कृत्वा निजहस्ते मन्त्रान्संपूज्य तेजोरूपान ध्यात्वा शिष्यमस्तके सन्निवेश्य मूलमन्त्रं समुच्चरन् सर्वाङ्गालभनं विदध्यात् । तदन्वस्त्रेण प्रोक्षणताडने विधाय रेचकेन शिष्यदेहे सम्प्रवेश्य सुविश्लेषछदा वस्त्रेण संपिधाय अङकुशमुद्रया तच्चैतन्यमाकृष्य द्वादशन्ते समानीय संहारमुद्रया स्वहृदये पूरकेण प्रवेश्य कुम्भकेन समरसीकृत्य रेचकेन ब्रह्मादिदेवताः संचिन्त्य द्वादशान्तमानीय सुपुम्नायां नाडीप्राणवायूनेकीभूतान संचिन्त्य तत्र शिष्यचैतन्यं शुद्धस्फटिकप्रख्यं सम्भाव्यं जिह्वां तालुके संयोज्य ईषद्द्वथावृतवक्त्रे दन्तैर्दन्तानसंस्पृशन् समुन्नतकायो मन्त्रमुचार्य श्रोत्रविवरेण स्वकीयप्राणेन सह मूलमन्त्रं शिष्यस्य हृदि सनिवेशयेत् । ततः शिष्यः स्वहस्तेन भगवन्तं सम्पूज्य नैवेद्यादिकं दत्वा गुरवे सुवर्ण दक्षिणां दवात् । एवं समयसंस्कार. संस्कृतः पूजाहोमश्रवणाध्ययनादिषु योग्यः स्याज्जैनं च पदं लभत इति । ॥१४॥ Jain Education inte For Private & Personal Use Only nelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104