Book Title: Nirvankalika
Author(s): Padliptsuri, Jinendravijay Gani
Publisher: Bhuvan Sudarshan Jain Granth Mala Devali Rajasthan
View full book text
________________
भूपरीक्षा
निर्वाणकलिका.
||२०||
॥२०॥
गन्धमन्त्रः। सर्वमृद्भ्यः पृथिव्यात्मिकाभ्यो नमः । मृतिकामन्त्रः । न्यग्रोधात्मने सुराधिपतोरणाय नमः । १। पलाशा मने तेजोषिपतोरणाय नमः । २। उदुम्बरात्मने धर्मराजतोरणाय नमः । ३ । सिडकात्मन रक्षोधिपतोरणाय नमः ।४। अश्वत्थात्मने सलिलाधिपतोरणाय नमः । ५ । मधुकात्मने पवनाधिपतोरणाय नमः । ।। प्लक्षात्मने यक्षाधिपतोरणाय नमः । ७ । विल्वात्मने विद्याधिपतोरणाय नमः । ८। तोरणमन्त्रः।
॥ इति आचार्याभिषेकः ॥
॥४॥ श्रथ भूपरीक्षा ॥ अथ प्रासादं चिकीपुः प्रागेव सुपरीक्षितां भुवं गृह्णीयात् । तत्र भूमिः शुक्ला आज्यगन्धा मधुरा ब्राह्मणस्य । रक्ता रक्तान्तगन्धा कषाया क्षत्रियस्य । पीता तिक्तान्तगन्धा वैश्यस्य । विगन्धा कटुका कृष्णा मध्यगन्धा शूदस्य । शेषा चतूरूपाऽपि खातवारिदीपगुणादिना परीक्षणीया । तत्र हस्तमात्रं खातं तत्रत्यमृदा यस्याः पूर्यते सा मध्यमा । या उद्धरति मृत्तिका सा श्रेष्ठा। यत्राऽरिपूर्णा मृत्तिका साऽधमा। उदकेन च खातमापूरितं पदशतगमनागमनपर्यन्तं यत्र सम्पूर्ण दृश्यते सा ज्यायसी । अगुलोनं मध्यमा । बहुभिरङ्गुलैरून निकृष्टेति । आमकुम्भस्य वा उपरि घृतपूर्णशरावे चतुर्दिनु सितरक्तपीतकृष्णवर्तिचतुष्टयं प्रज्वालयेत् । प्रज्वालितं हृदयादिमन्त्रसम्पूजितमास्नेहान्तं यदि पश्येत्तदा सर्ववर्णाना भूः प्रशस्तेति जानीयात् । अथ निर्वाणा यावन्त्यस्तावता सा न प्रशस्तेति ।
Jain Education Intern
For Private & Personal Use Only
K
inelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104