Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
ततश्च तेषां पदपद्महंसः, समप्रगच्छामरणावतंसः । धनेश्वरः सूरिरभूत् प्रशस्यः शिष्यः प्रभावप्रथितो यदीयः ॥ ५ ॥ निःशेषागमतर्कशास्त्र सकलालङ्कारसंविन्निधेर्यस्येन्दारिव दीधितीर्वितमसो वाचोऽमृतस्यन्दिनीः । आस्वाद्यामितभक्तिसभभविकाः स्वात्मानमस्ताशुभं मन्यन्ते स्म सुरापवर्गरुचिरश्रीपात्रमत्युत्तमम् ॥६॥ श्रीचन्द्रसूरिनामा शिष्यस्तेषां बभूव गुरुभक्तः । तेन कृता स्पष्टार्था श्राद्धमतिक्रमणवृत्तिरियम् ||७|| करनयनसूर्यवर्षे १२२२ प्रातः पुण्यार्कमधुसितदशभ्याम् । धृतियोगनवमकक्षे समर्थिता प्रकृतवृत्तिरियम् ||८|| उत्सूत्रं यद् रचितं मतिदौर्बल्यात् कथञ्चनापि मया । तच्छोधयन्तु कृतिनोऽनुग्रहबुद्धिं मयि विधाय ||९|| यावत् सुमेरुशिखरी शिखरीकृतोऽत्र, नित्यैर्विभाति जिनबिम्बगृहैर्मनोज्ञैः । श्रीचन्द्रसूरिरचिता भुवि तावदेषा, नन्द्यात् प्रतिक्रमण वृत्तिरधीयमाना ॥ १०॥ प्रत्यक्षरं निरूप्यास्य ग्रन्थमानं विनिश्चितम् । श्लोकपञ्चाशदुत्तरशतान्येकोनविंशतिः ॥ ११ ॥ ॥ ग्रन्थाग्रम् १९५० ॥
(४) जीतकल्पबृहच्चूर्णिदुर्गपदव्याख्या | रचनासंवत् १२२७ । प्रशस्तिइति जीतकल्पचूर्णिविषया व्याख्या समाप्ता ।
जीतकल्पबृहच्चूर्णै व्याख्या शास्त्रानुसारतः । श्रीचन्द्रसूरिभिर्दृग्धा स्व-परोपकृतिहेतवे ॥१॥ मुनि-नयन तरणिवर्षे १२२७ श्रीवीरजिनस्य जन्मकल्याणे । प्रकृतग्रन्थकृतिरियं निष्पत्तिमवाप रविवारे ||२|| सङ्घ-चैत्य-गुरूणां च सर्वार्थप्रविधायिनः । वशाऽभयकुमारस्य वसतौ दृब्धा सुबोधकृत् ॥३॥ एकादशशतविंशत्यधिकं श्लोकप्रमाणग्रन्थाग्रम् । ग्रन्थकृतिः प्रविवाच्या मुनिपुङ्गवसूरिभिः सततम् ||४|| यदिहोत्सूत्रं किञ्चिद् दृब्धं छमस्थबुद्धिभावनया । तन्मयि कृपानुकलितैः शोध्यं गीतार्थविद्भिः ||५||
समाप्ता चेयं श्रीशीलभद्रप्रभु-श्रीधनेश्वरम् रिपादपद्मचञ्चरीक श्रीश्रीचन्द्रसूरि संरचिता जीतकल्पबृहच्चूर्णिदुर्गपद विषया निशीथादिशास्त्रानुसारतः सम्प्रदायाच्च सुगमा व्याख्येति ।
यावल्लवणोदन्वान् यावन्नक्षत्रमण्डितो मेरुः । खे यावच्चन्द्रार्कौ तावदियं वाध्यतां भव्यैः ॥१॥ (५) नन्दी लघुवृत्ति दुर्गपदव्याख्या | प्रशस्ति
श्रीधनेश्वरसूरीणां पादपद्मोपजीविना । नन्दिवृत्तौ कृता व्याख्या श्रीमच्छ्रीचन्द्रसूरिणा ॥ | १ || इति समाप्ता श्रीशीलभद्रप्रभु-श्रीधनेश्वरसूरिशिष्य श्रीश्रीचन्द्रसूरिविरचिता नन्दिटीकाया दुर्गपदव्याख्या ॥
नन्दिवृत्तिदुर्गपदव्याख्यान्ते ।
(६) सुखबोधा सामाचारी । प्रशस्ति
इसा गिहत्थ साहु सत्थाणुद्वाणविहिपदरिसणपरा
सुहबोहा सामायारी सम्मत्ता । इति बहुविधप्रतिष्ठा कल्पान् संवीक्ष्य समुद्धृतेयं श्रीश्री चन्द्रसूरिणा ॥
सिरिसीलभद्दसूरि-धणेसर सूरिसिस्ससिरिचंद सूरि समुद्धरिया
Jain Education International
कमलवने पाताले क्षीरोदे संस्थिता यदि स्वर्गे । भगवति ! कुरु सान्निध्यं बिम्बे श्रीश्रमणस च ॥ १ ॥ ॥ इति श्री सुबोधा सामाचारी समाप्ता ॥ सं. १३०० माघ शुदि १० गुरौ श्रीचन्द्रगच्छे मण्डनीय शुद्धांकसूरिभिर्लिखापिता ।
समुच्चय प्रन्थाप्रम् १३८६ ॥
For Private Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 248