Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(मालिनी)
Jain Education International
अनाथानां नाथो गतिरगतिकानां जिनपते ! अबन्धूनां बन्धुर्मतिरमतिकानां शुभमते ! ॥ असातानां सातं त्वमसि च गुणो निर्गुणनृणाम् अविद्यानां विद्या त्वमसि च धनं निर्द्धननृणाम् ॥ २४ ॥ भवानेको बन्धुर्भवति च भवानेव पितरौ भवानेको भ्राता भवति च भवानेव सुगुरुः ॥ भवानेको देवो भवति च भवानेव भवनं भवानेको धर्मो निधिरपि भवानेव भुवने ॥२५॥
विविधधनसुसाध्यं वस्तुजातं जनानाम् न हि निजपरितृप्ते प्रेक्षसे भक्तिभाजाम् ॥ इति धननिरपेक्षोऽप्यर्थयुक्तैरमीभी रुचिरवचनपुष्पैरर्चनं ते तनोमि ॥२६॥ श्लथयति भवबन्धान् जन्मजालप्रबद्धान् स्मृतिरनुभवभाजां यस्य चित्तोपनद्धा ॥ अनुपमसुखसिद्धिर्यत्प्रसादात्स एको जयति जगति गौडीपार्श्वनाथो जिनेन्द्रः ॥२७॥ मुखसितकरमध्ये दीप्यमानप्रकाशम् विकसितमनिशं तल्लीनताराद्विरेफम् ॥ कमलकुमुदधर्माद्वैतसाम्राज्यराजं
दिशतु मम शिवं ते नेत्रपद्मं नवीनम् ॥ २८ ॥ दिनकरकरयोगायोगतोऽमुक्तशोभं नयनयुगलचन्द्राद्वैतमैत्रीप्रबोधम् ॥ कचनिकरतमोन्तर्दीप्यमानं नवीनं जयतु तव मुखाब्जं दत्तहर्षप्रकर्षम् ॥२९॥ विविधजनसुवाच्छापूरणे पारिजातं
निजशरणमुपेतू रक्षणेष्वाशु दक्षम् ॥ भवभरभवकूपोद्धारणे रज्जुमेकं त्रिभुवनजनवन्द्यं हस्तयुग्मं स्वीमि ॥ ३० ॥ नखनिकरनिशेशज्योतिरुद्योतिताशं त्रिभुवनजनपुञ्जक्षान्तिसान्द्रार्द्रदृष्ट्या ॥
५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90