Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 25
________________ नागराजविरचितं कलिविमर्शनशतकम् एच्. वि. नागराजरावः Jain Education International समस्ते भूमिवलये सुखदुःखविदालये । सम्प्राप्तनित्यबलये कलये कलये नमः ॥१॥ अविमृश्य गुणान् दोषान् पुण्यं पापं च केचन । युगं कलिं विनिन्दन्ति सम्प्रदायं समाश्रिताः ॥२॥ निष्पक्षपातया दृष्ट्या परीक्षा क्रियतां बुधैः । 'उच्चावचं समालोक्य जगच्चरितमद्भुतम् ॥३॥ गुणाश्च दोषाश्च परीक्षणीयाः निष्पक्षपातैः `कृतिभिर्युगानाम् । पूर्वेऽभिवन्द्याश्रमे तु निन्द्या युगस्तु कश्चिन्न हि गर्हणीयः ॥४॥ सर्वेषु कालेषु भवन्ति दुष्टाः शिष्टाश्च कालो न हि तत्र हेतुः । प्राज्ञास्तथाऽज्ञाश्च भवन्ति लोके तिक्तं च मिष्टं च फलं द्रुमेषु ॥५॥ विद्वांसः कविपुङ्गवाः सुकृतिनो दानव्रतप्रोज्ज्वलाः सच्चारित्रविभूषणाश्च गुरवो ज्ञानप्रदानोत्सुकाः । सर्वत्रैव परोपकारनिरताः विद्यादिहृद्योद्यमाः विद्यन्ते कलावपि क्षितितले कस्मादयं निन्द्यते ॥ ६ ॥ प्रचरति जिनभक्ति: श्रूयते देवगानं मधुरनिगमशब्दो बोभवीति प्रकृष्टः । यतिचरणसपर्यां कुर्वते सर्वलोकाः कलियुगमिह कस्मान्निन्दति प्राज्ञलोकः ? ॥७॥ १. उच्चावचो नैकभेद: २. धीमान् सूरिः कृती कृष्टिः ३. प्रथमचरमतयाल्पार्धकतिपयनेमाश्च इति सर्वनामता १८ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90