Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अथ रात्रौ विलम्बेनाऽपि यदा कच आश्रमे न प्रत्यागतवान् तदा देवयानी स्वपित्रे तन्निवेदितवती । कचस्य च शुद्ध्यर्थमनुनीतवती । शुक्राचार्यः समाधावुपविश्य दृष्टवान् यत् - कचस्तु मृतोऽस्ति । स तं वनाद् गृहमानीय सञ्जीवनीविद्यया जीवन्तं कृतवान् । अतो राक्षसाः पुनश्चिन्तातुरा जाताः । अवसरं लब्ध्वा च ते तं पुनर्हतवन्तः । नैतावदेव किन्तु शुक्राचार्यं भोजनायाऽऽमन्त्र्य मृतस्य कचस्य शरीरस्य मांसं सज्जीकृत्य मधुना सह सम्मिश्य तस्याऽभक्षयन् ।
अतस्तद्दिनेऽपि कचो गृहं न प्रत्यागतवान् । बहुकालो व्यतीतः किन्तु कच आश्रमं न प्राप्तवान् । एतेन च देवयानी चिन्तया व्याकुला जाता । कचस्य च शुद्ध्यर्थं पुनः स पितरं विज्ञप्तवती । शुक्राचार्योऽपि ध्यानस्थितो ज्ञातवान् यत् कचस्तु स्वकीये उदर एव विद्यते । अतः स देवयानीमुक्तवान् – 'वत्से ! कचस्तु ममोदर एव विद्यते । अथ कथं पुनस्तं सजीवं कुर्याम् ? कथं चोदराद् बहिरानेतव्यः सः? यदि तं सजीवं कुर्यां तहि मम मृत्युस्त्ववश्यंभावी । अतो नाऽस्त्यथ कोऽपि तं सजीवं कर्तुमुपायः' ।।
देवयानी प्रोक्तवती - "पितर् ! प्रथमं तावत् तमुदर एव मृतसञ्जीवनी विद्यां शिक्षयतु । पश्चात् तमुदराद् बहिरानयतु । एवं कृते यदि भवतो मृत्युः स्यादपि तथाऽपि कचः सञ्जीवनीविद्यया भवन्तं सजीवं करिष्यति'।
पुत्र्या निर्दिष्टमुपायमुपयुज्य शुक्राचार्यः प्राणदानेनाऽपि कचमुदराद् बहिरानीतवान्, कचश्चाऽपि मृतं स्वगुरुं विद्यया सजीवं कृतवान् ।
अथ यथाकालं विद्यासम्पादनकार्यं समाप्तं जातम् । कचस्तु स्वगृहं गन्तुं गुरोः शुक्राचार्यस्याऽऽज्ञां याचितवान् । गमनाय सज्जं च कचं दृष्ट्वा देवयानी विषण्णा जाता । विद्वान् नीतिमांश्च कचः स्वकीयः पतिर्भवितुं सर्वथा योग्योऽस्तीत्यवधार्य देवयानी तमुक्तवती - ‘भोः कच ! भवान् गच्छति खलु ! तर्हि भवतो धर्मपत्नीरूपेण स्वीकृत्य मामपि भवता सहैव नयतु' ।
देवयान्या एतद् वचनं श्रुत्वा कचोऽवदत् - 'आर्यभगिनि ! भवती मम गुरोर्दुहिता । अत: पत्नीरूपेण भवत्याः स्वीकारो न शक्यः । नीतिशास्त्रेऽप्युक्तमेव यद् - गुरुहि पिताऽस्ति गुरुपत्नीश्च माता। गुरोश्च परिवारो भ्रातृभगिनीरूप एव - इति । अतो नीतेरुल्लङ्घनाद् मृत्युरेव वर इति मम मतिः' ।
देवयानी साग्रहं बहुप्रकारेण विज्ञप्तवती किन्तु कचः स्वसिद्धान्तान्न च्युतः । न च नीतिविरुद्धं कर्तुं कथमप्यङ्गीकृतवान् । एतेन च देवयानी हताशा जाता । अभिशप्तश्च तया कचः - 'भो ! मम पित्रा शिक्षिता मृतसञ्जीवनीविद्या निष्फला भविष्यति' इति ।
किन्तु, अतिपरिश्रमेण प्राप्ताऽपि विद्या निष्फलैव भविष्यतीति शापमपि नीतिशाली कचः प्रसन्नहृदयेनैव स्वीकृतवान् । अत एवाऽविचलितपदा धीरा इत्युक्तिः ।
६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90