Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 83
________________ मर्म नर्म - कीर्तित्रयी (१) विश्वविद्यालयपरिसरात् सहैव निर्गतौ स्नातकनेपथ्यधारिणौ द्वौ स्नातकौ बहिरागत्य टैक्सीयानमारूढौ। "किं भवन्तौ विश्वविद्यालयात् स्नातकीभूय निर्गतौ वा ?' यानचालकः पृष्टवान् । 'आम् भ्रातर् ! आवां २०११तमवर्षस्य स्नातकौ !' द्वावपि सगर्वमुक्तवन्तौ । तदा यानचालकोऽपि स्वहस्तमग्रे कृत्वा कथितवान् – 'अहमस्मि २००५ तमवर्षस्य स्नातकः !' इति ।। अरुणः कस्य राज्ञो मुकुट ह्यतिविशालमासीदिति त्वं जानासि वा ? वरुणः आम् अहं जानामि ! अरुणः तर्हि कथय, को वा सः ? वरुणः यस्य मस्तकमतिविशालमासीत् तस्य !! ७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90