Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 77
________________ मनेकग्रामनगराणि धनधान्यैः परिपूरितान्यनेकशतानि क्षेत्राणि च नाशितान्यभवन् । अस्याः समस्यायाः किमपि निराकरणं नृपेण न प्राप्तम् । अथैकदा स मध्येसभं स्वकीयां समस्यां प्रधानानां मनीषिणां च पुरतः कथयाञ्चकार । तदा कश्चिज्जनोऽवादीत् - "राजन् ! इत्थं प्रतिभाति यत् केनचित् कारणेन जगदीशोऽस्मान् दण्डयति । अत एव मातृसमाना वितस्ताऽस्माकमत्ययं कर्तुं तत्परीभूताऽस्ति । तस्याः सन्तुष्ट्यर्थं वयमेकं महायज्ञं कुर्याम" । ततो नृपेण चिन्तितं यद् ‘स्यादेवं न वा, किन्तु ममैव कस्यचित् पापस्याऽयं निग्रहो मत्प्रजायाः पीडाकारको भवति । अन्यथा मत्पितृशासने कथमीदृश्यापत्तिर्नाऽऽगता?' इति विचिन्त्य स सुदूराद् विप्रान् कोविदाँश्चाऽऽहूय वितस्ताया तटे विशिष्टमहामखमकारयत् । किन्तु तत्पश्चादपि वितस्ता पूर्ववदेव दारुणमत्ययं कुरुते स्म । ततः केनचिज्जनेन पुनरुक्तम् - "नद्यम्बायै बलिर्दीयताम्" । अतो नृपतिर्बहूनां पशूनां बलीनयच्छत् । किन्त्वनेनाऽकार्येणाऽतिरुष्टेव वितस्ताऽन्तिमवर्षादप्यधिकं दारुणं विनाशमकरोत् । अथ सभायामेकदा नृपः "किं कर्तव्यमिति चिन्तातुरो भूत्वोपविष्टवान्, तदा द्वारपालेनाऽऽगत्याऽकथ्यत यदेको युवा राज्ञो दर्शनं कर्तुमिच्छति । स कथयति यदहं वितस्तायाः सन्तुष्टेः कलां वेद्मि । राजा व्यस्मयत । 'पूर्वागतानामन्येषां सदृशोऽयमपि कश्चन धूर्तः सम्भवेत्, तथाऽपि तस्य मिलने का हानिः ?' इति विचिन्त्य नृपेण द्वारपालस्तं युवानं समज्यायामानेतुमादिश्यत । ___ आगन्तुको युवा राज्ञा पृष्टः - "अये युवन् । त्वया या वार्ता कृता सा सत्याऽस्ति न वा ?" युवा गम्भीरघोषेण प्राह - "ओम् राजन् ! नूनमहं वितस्तायाः कोपं निवारयितुं शक्नोमि । तदर्थं मम यज्ञादेर्न, किन्तु केवलं दशसहस्राणां रूप्यकाणामावश्यकताऽस्ति" । तपसा बलिना पूजया यज्ञेन च विनैव वितस्तां वशीकर्तुं सन्नद्धं तं युवानं निरीक्ष्य सभासदोऽत्याश्चर्यमन्वभूवन्नविश्वासं चाऽदधत । प्रधान-राजपुरोहिताभ्यां तु राजा निवेदितः - "राजन् ! धूर्तमानवस्याऽस्य काऽपि वार्ता न माननीया । स धनं गृहीत्वा देशान्तरं पलायिष्यते । तस्य चित्तं दुष्टमस्ति । यत्र महान्तः पण्डिताः किञ्चिदपि कर्तुं नाऽशक्नुवन्, तत्राऽयं भ्रान्तचित्तः साधारणो जनः किं करिष्यति ?" श्रुत्वेदं यूना कथितं - "भोः पृथ्वीपाल ! भवान् भवद्राजवैद्यनाऽहं भ्रान्तचित्तोऽस्मि न वा तद् गवेषयतु, पश्चाच्च मम समन्तात् सैनिकान् स्थापयतु, येनाऽहं देशं त्यक्त्वा पलायितुं न शक्नुयाम् । अहं साधारणजनोऽसाधारणजनो वा, तत्तु मत्कार्यमेव कथयिष्यतीत्यलमतिचर्चया । एकस्मिन्नेव सप्ताहे यदि वितस्ता स्वमर्यादायां न वहेत्तर्हि भवशिक्षा सोढुमहं प्रवणोऽस्मि' । एवमपि राजपुरुषाः सम्मता नाऽभवन् । किन्तु 'यज्ञादिकर्मण्यनेकसहस्राणां सुवर्णमुद्राणां व्ययः सञ्जातोऽस्ति तडॅकस्मिन्नधिके प्रयत्नकरणे को बाधः ?' इति विचार्य नृपोऽनुज्ञामयच्छत् । राजनगरे श्रीनगरे वृत्तान्तोऽयं वायुरिव प्रसृतो 'यदेको भ्रान्तचितः श्वो वितस्तां वशीकरिष्यती'ति । ७० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90