Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 80
________________ कथा शुकद्वयम् सा. हर्षरेखाश्रीः एकदा कस्यचिन्नृपस्य समीपे द्वौ शुकौ समागतौ । नृपो द्वयोरपि शुकयोर्मध्ये भाषाभेदं परिलक्षितवान् । यद्, एकस्य भाषा मधुरा प्रीतिकरा चाऽऽसीद्, अन्यस्य च कठोराऽप्रीतिकरा चाऽऽसीत् । अस्य भेदस्य कारणं नृपो मधुरभाष शुकं पृष्टवान् । शुकः कथितवान् यद्, यद्यपि सहोदरावेवाऽऽवां, किन्तु डयन्तौ झञ्झावातेनाऽऽवामेकदा वियुक्तौ जातौ । दैवाच्चाऽहं कस्यचिद् ऋषेराश्रमं प्राप्तवान् । तथैष च मम भ्राता किरातानां वासं प्राप्तवान् । ऋषिमुनीनां मधुरव्यवहारेण मम वाणी संस्कृता जाता, किन्तु किरातानां दुर्वचोभिर्दुर्व्यवहारेण च मे बन्धुः कठोरवाग् जातः । अतः संसर्गभेदजोऽयमावयोर्भाषाभेदोऽस्ति । ७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90