Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
द्वितीयदिने प्रभाते निश्चितसमये सहस्राधिका लोका नद्या द्वयोस्तटयोरिदं नाटकं द्रष्टुमेकत्र मिलिताः । सर्वेषां समक्षं तरीमुपविश्य युवा निर्गतः । तेन सहाऽनेके घटा आसन् । सर्वे जनास्तं पश्यन्ति स्म । तावदेव युवा स्वहस्तेनैकघटाद् मुष्टिं भृत्वा मुद्रा बहिरानीय नद्यामक्षिपत् । नद्या द्वयोस्तटयोरेकत्र संमीलिता लोका यून ईदृग् भ्रान्तचित्तत्वं दृष्ट्वा व्यस्मयन्त । तत्पश्चात्तु हस्तेन घटाद् मुद्रा गृहीत्वा बहिरानयनं लोकानां दर्शयित्वा क्षेत्रेऽन्नानां वपनस्येव नदीजले मुद्राणां क्षेपणस्योपक्रमोऽचलद् । सर्वेऽपीत्थमन्वभवन् यद् यूनो मनसि ते रायो, रायो न सन्ति, किन्तु कर्करा एव ।
एतावत्येव परस्मिन् तटे सहसा कश्चन ध्वनिर्जातः । कतिपये च साहसवीरास्तटिन्यां प्लुत्वा बुडित्वा च मुद्रानिष्काशनोद्यमे लग्नाः । प्रथमं तु लोकास्तेषामीदृशं दुःसाहसमहसन्, किन्तु कतिपयेषां यूनां किल नद्यास्तलाद् मुद्रा मिलितास्ततस्तेषां हास्यं तिरोभूतम् । अन्येऽपि जना मुद्रा निष्कासयितुमुत्सुका अभवन् । लोका जलवाहिन्यां प्लवमाना आसन् । केचित् स्वीयहस्तद्वयाभ्यां तलाद् कर्दमं निष्काशन्ते स्म । इतश्च केचिल्लोका आत्मना सह लघुकरण्डकं गृहीत्वा तलं गच्छन्ति स्म । तस्मिन् करण्डके कर्दमं भृत्वा ते तीरमानीय तस्मिन् मुद्रा मृगयमाणा आसन् । कतिपयेषां लोकानां मनस्यतोऽप्यतिशोभना युक्तिर्जागृता । एकं वृन्दं नद्यास्तलात् कर्दममानीय तट उत्करं व्यरचयत् । द्वितीयं तु तस्मिन् मुद्रा अगवेषयत् । असौ युवा तु घटेभ्यो मुद्रा निष्काश्य लोकान् दर्शयित्वा च नद्यां क्षिपति स्म । इत्थं कृत्वा जाने स लोकान् मुद्रा ग्रहीतुमधिकमधिकं समाह्वयत इति प्रत्यभात् ।
नदीमध्यं गत्वा स मुद्राभिर्भूतमेकं सम्पूर्णं घटमेव जले पराङ्मुखमकरोत् । यथा यथा तस्य तर्यग्रतो वर्धमाना जाता तथा तथा मुद्रागवेषयितारोऽपि वर्धमाना आसन् । नृपस्य कर्मचारिणो यून ईदशी चेष्टां निरीक्ष्याऽतिमुह्यन्ति स्म यदमुना यूना त्वशेषं नगरं भ्रान्तचित्तं कृतम् । स्तोकमुद्राप्राप्तिलोभेन लोका अनेकशतपलमितकर्दमं तटमानयन्त आसन् ।
__परस्मिन् दिने सूर्योदयात् प्रागेव लोकाः पुनः सरितं प्रति निरगच्छन् । द्वितीयस्मिन् दिनेप्ययं क्रमोऽचलद् । द्वयोश्च तटयोर्मृत्तिकाया उत्करा अभवन् तीपि लोकानामुत्साहोऽमन्द आसीत् ।
तृतीये दिने प्रातस्समये लोका एकां चमत्कृतिमपश्यन् । वितस्तायास्सलिलं बहुहस्तमितमधोऽगच्छत्, तटाश्चाऽनेकहस्तमिता उच्चैरगच्छन् । राजाऽपि 'बुद्धिर्यस्य बलं तस्य' इत्युक्तेश्चरितार्थताकारकेण यूना कृता चमत्कृतिमिमामपश्यत् । तदा तेन ज्ञातं यद् नदी किमर्थं क्रुध्यन्त्यासीत् । वर्षेभ्यो नगरस्य कचवरस्तस्यां गच्छन्नासीत् । येन कारणेन तस्यास्तलमनगाधमभूत्, जलस्य च गमने विघ्न उदपद्यत । अस्य सत्यस्य ज्ञानाय यज्ञबल्योर्न, किन्तु प्रकृतिस्वभावस्य ज्ञानमावश्यकमासीत् ।
एतद्घटनानन्तरमनेकवर्षेभ्यः पश्चादपि वितस्तायां पूरो नाऽऽगतः । नद्यास्तटे नगरमेकमवसत् । तदद्य 'सोदार' इत्यभिधानेन विख्यातमस्ति । तदा तस्याऽभिधानं सूयापुरमासीत् । यतस्तत् किल लोकानां पूरसङ्कटाद् रक्षकस्य 'सूया' इत्यभिधानस्य यूनः स्मृतौ न्यवात्सीत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90