Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 62
________________ ग्रन्थपरिचयः १. जिनेन्द्रस्तोत्रम् रचयिता - मुनिश्रीराजसुन्दरविजयः प्रकाशकः - श्रुतज्ञान संस्कार पीठ, अहमदाबाद एकस्वराण्येकव्यञ्जनानि च २७ पद्यानि प्रयोज्य विरचितमेतत् स्तोत्रं चतुर्विंशतेस्तीर्थकराणां स्तुतिरूपमस्ति । पद्यानां भावमवगमयितुं मुनिवरेण मञ्जुलाभिधा वृत्ति रुचिराभिधश्च हिन्दी-गूर्जरभाषानुवादोऽपि विरचितोऽस्ति । ग्रन्थान्ते च चतुर्दशपद्यमयमेकस्वरमेकव्यञ्जनं चैवाऽर्हत्स्तोत्रमपि सवृत्ति सानुवादं च मुनिवरविरचितमेव विराजते । एतस्मिन् कालेऽपि एतादृशानां कूटकाव्यानां रचयितारो विद्यन्तेइति तु महान् सन्तोषविषयः । रचयिता मुनिवरो हि स्वीयां सर्जनशक्तिं संस्कृतवाङ्मयस्याऽन्यविधास्वपि प्रयुज्यात् - इत्यस्ति साहित्यसेविनां मनोभावना । मुद्रणे काश्चन त्रुटयो वर्तन्तेऽनवधानवशात् । ताश्च सप्रयत्नं निवारणीयाः । २. सहस्त्रभानुः स भुवनभानुः रचयिता - मुनिश्रीतीर्थबोधिविजयः (प्रकाशकादिनामानि न निर्दिष्टानि) ग्रन्थेऽस्मिन् मुनिवरेण वर्धमानतपोनिधिश्रीविजयभुवनभानुसूरिवराणां जीवनप्रसङ्गानां शतकं निबद्धमस्ति । मुनिवरस्य भाषालालित्यं वाक्यरचनाशैली च चित्ताकर्षके स्तः । प्रशस्तं पुस्तकमुद्रणं शोभनमुखपुटेन चकास्तितराम् । केवलं केचन भाषादोषा व्याकरणदोषाश्च निवारणीयाः सयत्तं चोचिताः शब्दाः प्रयोक्तव्याः । अग्रेऽप्युत्तमसाहित्यविरचनेन संस्कृतवाङ्मयमलङ्करोतु मुनिवर इत्याशास्महे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90