Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 39
________________ सुभाषितानि प्रा. डॉ. किशोरचन्द्रपाठकः । मेघः समुद्रं प्रति । _(वसन्ततिलकावृत्तम्) पीतं समुद्र ! तव यज्जलबिन्दुलेशं तं तुभ्यमेव खलु सादरमर्पयामि । को वा वदेन्मम कृतोपकृतं त्वदर्थं यद्यर्प्यते सलिलमद्य च पूर्वपीतम् ॥ कोऽजो वदेद् यदि ममोच्चमधस्त्वदीयं स्थानं कदापि भुवने न विषादहेतुः । निम्नस्थितो गुरुतयोपरि संस्थितोऽहं प्रायोऽल्पता भवति मोहकरी जनानाम् ॥ क्षारं जलं भवति सागर ! तावकीनं कामं बृहद्वपुरिदं तव निन्दनीयम् । अन्तस्तलां समुपयाति जनस्त्वदीयं रत्नाकरस्त्वमसि संविदितो जनेन ॥ स्यादुत्सवस्तव शशाङ्ककलाप्रवृद्धौ क्षीणे विधौ तव वपुः क्षयमेति नूनम् । दृष्टं त्वयि परमरम्यमुदारसख्यं सन्मित्रलक्षणमिदं समुदाहरामि ॥ (४) ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90