Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 24
________________ *ट्रायोलेट-द्वयम् प्रा. अनिल द्विवेदी १. सम्बन्धः क्वचित्सम्बन्धोऽयं चलति समये पुष्यति सदा, क्वचित्सम्बन्धोऽयं चलति समये म्लायति सदा । अहो सम्बन्धानां भवति गणितं विस्मयकरम् । क्वचित्सम्बन्धोऽयं चलति समये पुष्यति सदा । यदा स्वार्थान्मुक्तो, व्रजति समये नश्यति न हि, यदा स्वार्थाऽऽसक्तः, सरति समये क्षायति शनैः । क्वचित्सम्बन्धोऽयं चलति समये पुष्प्यति सदा,, क्वचित्सम्बन्धोऽयं चलति समये म्लायति सदा । २. साहित्यम् साहित्ये नितो जनो दनुजतां सन्त्यज्य देवो भवेत्, साहित्याद्विमुखो जनः सुजनतां त्यक्त्वा भवेद्दानवः । साहित्ये सति भाति विश्वमखिलं, नष्टं भवेदन्यथा । साहित्ये निरतो जनो दनुजतां सन्त्यज्य देवो भवेत् । काव्यास्वादपयोधिमग्नमनसां विश्वं भवेत्सुन्दरम्, ते कुर्वन्ति जनाः सदैव सफलं स्वं मानवत्वं खलु । साहित्ये निरतो जनो दनुजतां सन्त्यज्य देवो भवेत्, साहित्याद्विमुखो जनः सुजनतां त्यक्त्वा भवेद्दानवः । * Triolet इति फ्रेन्चकाव्यप्रकारोऽयम । आरोही एपार्टमेन्ट पटेल कोलोनी, जामनगरम् १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90